SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.krtutirth.org 44 केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्य ॥ तत्र मतिज्ञानत्वं श्रुताननुसार्यनतिशयितज्ञानत्वं अवग्रहादिक्रमवदुपयोगजन्यज्ञानत्वं वा, अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसार्येवेति न तयोरतिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसम्बन्धप्रतिसन्धानजन्यज्ञानत्वं, तेन न सविकल्पक ज्ञान सामग्रीमात्र प्रयोज्य पदविषयताशालिनी हा पाय धारणात्म के मतिज्ञानेऽव्याप्तिः । ईहादिमतिज्ञानभेदस्य श्रुतज्ञानस्य च साक्षरत्वाविशेषेऽप्ययं घट इत्यपायोत्तरमयं घटनामको न वेति संशयादर्शनात्, तत्रानोऽप्यपायेन ग्रहणात् तद्धारणोपयोगे 'इदं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य' इति पदपदार्थसम्बन्धग्रहस्यापि धौव्येण तज्जनितश्रुतज्ञानस्यैव श्रुतानुसारित्वव्यवस्थितेः । अत एव धारणात्वेन श्रुतहेतुत्वात् “ महपुत्रं सुअं" इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः, "न मई सुअपुब्विया" इत्यनेन च मतित्व सामानाधिकरण्येन श्रुतपूर्वस्वनिषेधोऽभिहितः सङ्गच्छते । कथं तर्हि श्रुतनिश्रिताश्रुतनिश्रितभेदेन मतिज्ञानद्वैविध्याभिधानमिति चेद्, उच्यते - स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोध समान कालनित्वे सति श्रुतोपयोगाभावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदं, उक्तवासनाप्रबोधो धारणादाययोपयुज्यते श्रुतोपयोगाभावश्च मतिज्ञानसामग्रीसम्पादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाच्छ्रुतज्ञानस्यैवापत्तेः, मतिज्ञानसामग्र्याः श्रुतज्ञानोत्पत्चिप्रतिबन्धकत्वेऽपि शाब्देच्छास्थानीयस्य तस्योत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्यस्मरणमार्प च श्रुतज्ञानमध्य एवं परिगणनीयम् । उक्तवासनाप्रबोधासमानकालीनं च मतिज्ञान मौत्पत्तिक्पादिचतुर्भेदम श्रुतनिश्रितमित्यभिप्रायेण द्विधाविभागे दोषाभावः । तदिदमाह महाभाष्यकार:- "पुत्रि सुपरिकम्मिय - महस्स जं संपयं सुआईअं । तं निस्मियमियरं पुण, अणिस्सिधं महचउकं तं ॥ १६९ ॥ ( ज्ञानार्णव पत्र २५) इति " । अपूर्वचैत्रादिव्यक्ति बुद्धौ त्वौत्पचिकीत्वमेवाश्रयणीयम् । १६ For Print And Personal Use Only Acharya Shel Kailassagarsun Gyanmandir मतिज्ञानकक्षणोपदर्शनं तत्र श्रुतानुसारित्वं क क्षितं श्रुतनिश्रिताs श्रुतनिश्रितमेदेन मतिद्वैविध्योपपादनश्च ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy