SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अध AUKRESMUKHRESEACHERE तन्यमात्राविर्भाव आवश्यक इति परमार्थः । एकत्र कथमावृतानावृतत्वमिति त्वर्पितद्रव्यपर्यायात्मना भेदाभेदवादेन निलों- ठनीयम् । ये तु चिन्मात्राश्रयविषयमज्ञानमिति विवरणाचार्यमताश्रयिणो वेदान्तिनस्तेषामेकान्तवादिनां महत्यनुपपत्तिरेव, अज्ञानाश्रयत्वेनानावृतं चैतन्यं यचदेव तद्विषयतयाऽऽवृत्तमिति विरोधात् । न चाऽखण्डत्वाद्यज्ञानविषया, चैतन्यं त्वाश्रय इत्यविरोधः, अखण्डत्वादेश्विद्रूपत्वे भासमानस्यावृतत्वायोगात्, अचिद्रूपत्वे च जडे आवरणायोगात् । कल्पितभेदेनाखण्डत्वादि विषय इति चेत्, न, भित्रावरणे चैतन्यानावरणात् । परमार्थतो नास्त्येवावरणं चैतन्ये, कल्पितं तु शुक्तौ रजमिव तत्तत्राविरुद्धं, तेनैव च चित्त्वाखण्डत्वादिभेदकल्पना 'चैतन्य स्फुरति नाखण्डत्वाद्'इत्येवंरूपाऽऽधीयमाना न विरुद्धेति चेत्, न, कल्पितेन रजतेन रजतकार्यवत्कल्पितेनावरणेनावरणकार्यायोगात् । 'अहं मां न जानामि' इत्यनुभव एव कर्मत्वांशे आवरणविषयकः कल्पितस्यापि तस्य कार्यकारित्वमाचष्टे, अज्ञानरूपक्रियाजन्यस्यातिशयस्यावरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात्, अत एवास्य साक्षिप्रत्यक्षत्वेन स्वगोचरप्रमाणापेक्षया न निवृत्तिप्रसङ्ग इति चेत्, न, 'मां न जानामि' इत्यस्य विशेषज्ञानाभावविषयत्वात्, अन्यथा मां जानामीत्यनेन विरोधात, रष्टवेत्थ 'न किमपि जानामि'इत्यादिमध्यस्थानां प्रयोगः । किञ्च विशिष्टाविशिष्टयोर्मेंदा भेदाभ्युपगम विनाऽखण्डत्वादिविशिष्टचैतन्यज्ञानेन विशिष्टावरणनिवृत्तावपि शुद्धचैतन्याप्रकाशप्रसङ्गः, विशिष्टस्य कल्पितत्वादविशिष्टस्य चाननुभवात्, महावाक्यस्य निर्धर्मकब्रह्मविषयत्वं चाग्रे निलोठयिष्यामः । एतेन 'जीवाश्रयं ब्रह्मविषयं चाज्ञानम्' इति वाचस्पतिमिश्राभ्युपगमोऽपि निरस्तः । जीवब्रह्मणोरपि कल्पितभेदत्वात्, व्यावहारिकभेदेऽपि जीवनिष्ठाविद्यया तत्रैव प्रपश्चोत्पत्तिप्रसङ्गात् । न चाहङ्ककारादिप्रपञ्चोत्पत्तिस्तत्रेष्टैव, आकाशादिप्रपञ्चोत्पतिस्तु विषयपक्षपातिन्या अविद्याया ईश्वरे स ज्ञानस्य कथचिदावृतवानावृतत्वं, चिन्मात्राश्रयविषयम ज्ञानमिति |विवरणाचाथमतस्य मीवाश्रयं ब्रह्मविषयश्चा ज्ञानमितिवाचस्पतिमिश्रमतस्य चखण्ड नम् ।
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy