________________
सविवरण श्रीज्ञाना
प्रकारान्तरे|ण चतुर्मिसमर्भाषाद्रव्यैर्लोक
प्रकरणम् ॥
॥८
॥
SCHOOSINGAROOO
भवेत्ततः सोऽपि त्रिसामयिकः॥] स्यादेतत्-मथिमात्र एव कपाट कारणमिति कपाटं विना मथोऽभावाच्चतुःसामयिक्येव भाषाया लोकव्याप्तियुज्यते, मैवं, मध्यनुकूलविस्तारे कपाटस्येव पराघातस्यापि शक्तत्वादुभयोरप्येकशक्तिमत्त्वेन माथिहेतुत्वाद्,अत एवापराघातस्य स्कन्धस्य लोकव्याप्तौ कपाटापेक्षेति सिद्धान्तः, अथ जातस्यैव दण्डस्यैव विस्तारे पराघातः क्षमो नतूत्पद्यमानस्य तस्य न बोदासीनद्रव्यमात्रस्यान्यथा द्वितीयसमय एव लोकव्याप्तिप्रसङ्गात्, न च स्वभावमात्रं समयविलम्बनियामकमतिप्रसङ्गादिति चेत्, तर्हि प्रथमसमये भाषाद्रव्याणां षड्दण्डास्त एवं प्रसृमरा द्वितीयसमये षण्मन्थानस्तृतीयसमये चान्तरालपूरणमिति प्रागुक्ता वस्तुस्थितिरभ्युपगम्यता, अपराघातद्रव्याच्याप्तावेव दण्डकपाटमन्थानहेतुत्वादिति दिक् ॥ ३० ॥ प्रसङ्गादनादेशान्तरं दूषयति
दण्डमेकदिशं कृत्वा, चतुर्भिः समयैः परे ।। लोकपूरणमिच्छन्ति, न च युक्त्यागमक्षमम् ॥ ३२ ॥
परे प्रत्युत भाषाद्रव्याणां चतुर्भिः समयलॊकपूरण इमां प्रक्रियामाहुः, प्रथमसमये ताव दिशि दण्डो भवति, द्वितीयसमये च तत्र मन्थाः, अधोदिशि पुनर्दण्डं, तृतीयसमये चोर्ध्वदिश्यन्तरालपूरणमधोदिशि तु मन्था,चतुर्थसमये तु तत्राप्यन्तरालपूरणालोकव्याप्तिरिति, तन्मतं न युक्तिं क्षमते, अनुश्रेणिगमनस्वभावानां पुद्गलानामेकयैव दिशा गमनं नान्यत्रेत्यत्र नियामकाभावात्, न च वक्तृमुखताल्बादिव्यापाराभिमुख्यमेव नियामकं विश्रेण्यभिमुखे भाषके विश्रेणावपि गमनप्रसगात्, पटहादिशब्दपुद्गलानां वक्तृमुखव्यापारनिरपेक्षतया चतुःसमयानियमप्रसङ्गाच्च, न चात्र कश्चिदागमोऽप्यस्ति यद्बलात्तथाव्याप्तिस्वभावः कल्पयितुं शक्येत।। आह च-“एगदिसमाइसमए, दंड काऊण चउहिं पूरेइ । अन्ने भणन्ति,तं पि य, नागमजुचिरकर्म होइ ॥३९५॥" [एकदिकमादिसमये, दण्डं कृत्वा चतुर्भिः पूरयति ॥ अन्ये भणन्ति तदपि च नागमयुक्तिक्षम भवति ॥] ॥ ३२॥
देशस्य वस्तु| तोऽनादेशस्य खण्ड
नम् ॥
GAUR
॥
2