________________
S
a
kanda
Acharya ShaikailassigarsanGyanmanttire
जैनसमु
ISINESSIBILE
मृणोतीत्यत्र यत्तच्छब्दाभ्यां नियमाभिधानादनियमानुपपत्तेः, अपि चोर्ध्वाधोगमनसमय एव भाषा चतुर्दिशमप्यविशेषण शब्दप्रायोग्यद्रव्याणि पराहत्य द्वितीयसमये मन्थानं साधयतीति त्रिभिरेव समयैस्तस्या लोकव्याप्तिः सम्भवति, न च जीवप्रदेशानामिव भाषाद्रव्याणामपि लोकव्याप्तौ प्रथमसमये दण्डो द्वितीयसमये कपाटं तृतीयसमये मन्थाश्चतुर्थसमये चान्तरालपूरणमिति वाच्यम् ॥ भाषाद्रव्याणां पराघातसम्भवेनोर्ध्वाधोगमनोत्तरं द्वितीयसमये चतुर्दिक्ष्वनुश्रेणिगमनसमये सर्वतः पराघातवासितद्रव्याणां मथिभावेन कपाटव्याघातात् ।। न चैतेषां लोकव्याप्तौ चतुर्दिक्ष्वनुश्रेणिगमनपराघातस्वभावेभ्योऽधिकं नियामकमस्ति, केवली तु द्वितीयसमये केवलज्ञानरूपयेच्छया गुणदोषपर्यालोचनाद् भवोपग्राहिकर्मवशात्स्वभावाद् वा द्वितीयसमये मन्थानं न करोति किन्तु कपाटमेवेति तस्य चतुःसामयिकी लोकव्याप्तिः, अचित्तमहास्कन्धस्तु विस्रसापरिणामेनैव लोकमापूरयतीति द्वितीयसमये तस्य कपाटमात्रभावाच्चतुःसामयिकी व्याप्तिर्विनसापरिणामस्य पर्यनुयोगानहत्वाद् , अथवाऽसौ निजपुद्गलैरेव लोकमापूरपति, नतु पराघातेनान्यद्रव्याणामात्मपरिणामं जनयतीति तस्य चतुःसामयिक्येव व्याप्तिर्निजपुद्गलजन्ये मथि निजपुद्गलजन्यकपाटस्य हेतुत्वात्तं विना तदभावाद्, आह च "न समुग्धायगईए, मीसयसवणं मयं च दंडमि ।। जइ तो वि तीहिं पूरइ, समएहिं जओ पराघाओ।।३९२।।जइणे ण पराघाओ, स जीवजोगोय तेण चउसमओ॥ हेऊ होज्जाहि तहिं, इच्छा कम्मं सहावो वा ॥३९३।। खंधो वि वीससाए, ण पराघाओ अ तेण चउसमओ॥ अह होज पराघाओ, हविज तो सो वि तिसमइओ ॥३९॥" [न समुद्घातगत्या, मिश्रकश्रवणं मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समयैर्यतः पराघातः॥ जैने न पराघातः, स जीव| योगश्च तेन चतुःसमयः॥ हेतुर्भवेचत्रेच्छा कर्म स्वभावो वा ।। स्कन्धोऽपि विश्रसयान पराघातश्च तेन चतुःसमयः।। अथ भवेत्पराघातो
दूधातगत्या भाषाद्रव्यलॊकपूरणमित्यादे
शस्याऽ. नादेशत्वख्यापनम।।
KUGUSARAISEX
Fat PW
And Penal Use Only