________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णयप्रकरणम् ।। ॥ ८३ ॥
www.khatirth.org
त्रिसमयो यथा वा ।। मुक्त्वा त्रिपञ्चसमयांस्तथा चतुःसमय इह निबद्धः] यदि पुनरेवं व्याख्यायते चतुर्भिरपि समयैर्लोको निरन्तरं स्पृष्टो व्याप्तो भवति, तुरप्यर्थ एवानुक्तत्रिपश्चसमयसमुच्चये, तदेप्सितार्थलाभो न्यायाश्रयणादिप्रयासं विनेति द्रष्टव्यं, तुरेवकारार्थ एव, तस्य च निरन्तरमित्यत्रा व्यवहितान्वयो भाषयेत्यस्य च कस्यचित्सम्बन्धिन्या भाषयेति विवक्षितमित्यप्याहुः, लोकस्व च चरमान्ते सर्वलोकव्याप्तिविशिष्टाया भाषायाश्चरमान्तो भवति यदाहुः || “आपूरियम्मि लोगे दोन्ह, वि लोगस्स तह य भासाए ॥ चरिमंते चरिमंतो, चरिमे समयम्मि सव्वत्थ ।। ३९१ ॥ " [आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः ॥ चरमान्ते चरमान्तश्वरमे समये सर्वत्र || ] अत्र विवक्षयाऽऽदेरप्यन्तत्वाच्चरम ग्रहण मिति तु पक्षद्वयेऽपि सम्मुखम् ।। २९ ।।
अथ जैनसमुद्घातगत्या चतुर्भिः समयैर्भाषाद्रव्यैर्लोकः परिपूर्यत इत्यादेशस्यानादेशत्वं ख्यापयितुमाहसर्ववेदिसमुद्घात - गतिरत्र न युज्यते । एकदा षदिशां व्याप्तिः, पराघातेन तत्र यत् ॥ ३० ॥ जैनसमुद्घातगत्या हि भाषाद्रव्याणां लोकव्याप्तावङ्गीक्रियमाणायां प्रथमसमये ऊर्ध्वाधोगाम्येव दण्डः स्यान्न तु पदिक इति पूर्वपश्चिमदक्षिणोत्तरदिक्षु विदिविव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासितद्रव्याणामेव श्रवणान्मिश्रशब्दश्रवणं न स्यात् ॥ श्रूयते च - "भासासमसेढीओ, सदं जं सुणइ मीसर्य सुणइ ।। ३५१ ||" [ भाषासम श्रेणीतः शब्दं यच्छृणोति मिश्रकं शृणोति] इत्यादावविशेषेण सर्वासु दिक्षु मिश्रशब्दश्रवणमेवेति । अथ विदिक्षु नियमेन पराघातवासितशब्दश्रवणाभिधानाद्दिक्ष्वनियमेन तत्पर्यवस्यतीत्यनियमोपपादनाय मिश्रशब्दश्रवणं समभिधीयत इत्यूर्ध्वाधोदिशोर्मिश्रश्रवणमन्यासु च दिक्षु पराघातवासितश्रवणमिति व्याख्यानतो विशेषः प्रतिपद्यत इति चेत्, न, यो धूमवान् सोऽग्निमानित्यत्रेव भाषासम श्रेणीतो यं शब्दं शृणोति तं मिश्र
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
जैनसमुदूघातगत्मा भाषाद्रव्यै
कपूरण
मित्यादे
शस्यानादेशत्वख्या
पनम् ॥
॥ ८३