________________
BREAKINGAA
च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति।पञ्चमसमये तु पञ्चसामयिक्यां व्याप्तौ मन्थान्तरालपूरणात्समस्तलोकव्याप्तिरिति । एवं तृतीयचतुर्थपञ्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यात 'भयणा मेसेसु समयेसु' इति । एतच्च महाप्रयत्नवक्तृनिसृष्टद्रव्यापेक्षयैवोक्तं, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एवं वर्तन्ते. दण्डादिक्रमेण तेषां लोकपूरणाऽसम्भवादिति । अथ यद्युक्तप्रकारेण त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्वाग्द्रव्यलोकः पूर्यते तर्हि चतुर्दशपूर्वविदा श्रुतकेवलिना नियुक्तिकारेण भगवता भद्रबाहुस्वामिना 'चउहिं समएहिं लोगो, भासाए निरंतरं तु होइ फुडो॥ इति किमिति निर्धार्य चतुम्समयग्रहणमेव कृतमिति चेत्, सत्यम् , तुलादण्डग्रहणन्यायेन चतुःसमयग्रहणात् त्रयाणां पश्चानामपि समयानां ग्रहणस्य नियुक्तिकृता विहितत्वादेव ॥ व्यवहारे यथा तुलादण्डमध्यभागग्रहणेन तदाद्यन्तभागयोरपि ग्रहणं विहितमेव, एवमत्रापि विज्ञेयं, सत्रेऽप्येवंविधो न्यायो दृश्यते, यतो भग]वतः सूत्रस्य विचित्रा प्रवृत्तिः ॥ उक्तश्च-"कत्थइ देसग्गहणं, कत्थइ घेप्पन्ति णिरवसेसाई । उक्कमकमजुत्ताई, कारणवसओ णिउत्ताई ॥ ३८८ ॥" [कुत्रचिद् देशग्रहणं, कुत्रापि गृह्यन्ते निरवशेषाणि ।। उत्क्रमक्रमयुक्तानि, कारणवशतो नियुक्तानि ॥ न चैतादृशदेशनिबन्धः श्रुते न दृष्टो भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतुःसामयिक विग्रहे त्रिसामयिकस्यैव तस्य निबन्धाद, आह च-"चउसमयमज्झमहणे, तिपंचगहणं तुलाइमज्झस्स ।। जह गहणे पर्जत-ग्गहणं चिचा य सुत्तगई ॥३८७॥ [चतुःसमयमध्यग्रहणे, त्रिपञ्चग्रहणं तुलादिमध्यस्य ।। यथा ग्रहणे पर्यन्तग्रहणं चित्रा च सूतगतिः ॥] नघूर्वाधोगतदण्डादन्यद्रव्याणां पराघातो नास्ति ।। " चउसमयविग्गहे सति, महल्लबन्धमि तिसमयो जह वा ॥ मोतुं तिपंचसमए, तह चउसमओ इह णिबद्धो ॥३८९।।” [चतुःसमयविग्रहे सति महावन्धे
(योजितः
पाठः) चतुर्भिस्समयैर्माषाद्रव्यैर्लोकपूरणमितिनियुक्तिकारनिर्धारितचतुस्समयग्रहणतोडपि त्रिपञ्चसमयव्या
प्स्योर्लाभ * उपपादितः॥
A