________________
सविवरण श्रीज्ञाना
प्रकरणम् ॥ ॥८२॥
HORECARRAHASHISHEKEGAONG
क्वचित्पुनर्लोकस्य संख्येयभागे भाषासंख्येयभागः, क्वापि समस्तलोकव्याप्तिः । तथा हि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलोकव्याप्तिः, चतुःसमयव्याप्तित्तीयसमये तु लोकसंख्येयभागे भाषासंख्यभागः । कथं १, इति चेद् , उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते असनाडीबहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरगुलादिवाहल्यो रज्जुदी| दण्डस्तिरश्चीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति, ततो द्वितीयसमये तस्माद्दण्डाद्
|ऽधश्चतुर्दशरज्जूच्छ्रितः पूर्वापरतस्तिरवीनरज्जुविस्तृतः पराघातवासितद्रव्याणां दण्डो निर्गच्छति, लोकमध्ये तु दक्षिणत उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरङ्गुलादिवाहल्यं रज्जुविस्तीर्ण दण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिनोर्लोकान्तयोर्लगति । एवं च सति चतुरगुलादिवाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति, तृतीयसमये तूर्खाधोव्यवस्थितदण्डाच्चतुर्दिशं प्रमृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितः सर्वतोरज्जुविस्तीर्णाच्छत्वराधिःप्रसृतः पुनः स एव बसनाडी समस्तामपि पूरयति, एवं च सति सर्वापि त्रसनाडी उधिोव्यवस्थितदण्डमथिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चतावत्क्षेत्र, तस्य संख्याततमो भागः । तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥ पञ्चसामयिक्यास्तु व्याप्तेस्तृतीयसमये लोकासंख्येयभागे भाषाऽसंख्येयभागः । कुतः १, इति चेत्, उच्यते-तस्यां तस्य दण्डसमयत्वात् , तत्र च संख्येयभागवर्तित्वस्य प्रागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्तौ मन्थान्तरपूरणात्समस्तलोकव्याप्तिः । पञ्चसामयिक्यां तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागा, तस्यां तस्य मथिसमयत्वात्, तत्र
(योजितः पाठः). भाषायात्रिचतुःपञ्चसमबलोकव्याप्तिषु तृतीयसमयादौ भजनाप्रकार उपवर्णितः॥
७
॥ ८२॥