________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम् ॥
॥ ८१ ॥
www.krahatirth.org
बितियसमयम्मि ते च्चिय, छ दंडा होंति छम्मंथा ॥ ३८४ ॥ मंथंतरेहिं तईए, समये पुनेहिं पूरिओ लोगो || चउहिं समएहिं पूरइ, लोगंते भासमाणस्स ॥ ३८५ ॥ [ जैनसमुद्घातगत्या, केचिद् भाषन्ते चतुर्भिः समयैः ॥ पूर्यते सकलो लोकोऽन्ये पुनस्त्रिभिः समयैः ॥ प्रथमसमय एव यतो मुक्तानि यान्ति पसु दिक्षु तानि ॥ द्वितीयसमये त एव, पद्दण्डा भवन्ति षड्मन्थानः ॥ मन्थान्तरैस्तृतीये समये पूर्णैः पूरितो लोकः ॥ चतुर्भिः समयैः पूर्यते लोकान्ते भाषमाणस्य ।। ] इति ।। अथ लोकान्तवर्तनसनाडी बहिर्व्यवस्थितस्य वा भाषकस्य भाषाद्रव्यैश्चतुर्भिः समयैर्लेीकपूरणं प्रतिपादितं त्रसनाडीबहिर्विदिग्व्यवस्थितस्य च पञ्चभिः समयैर्लोकापूरणं भवति तदेतत्सर्वं कथं मिलतीति चेत्, अत्रार्थे सविवरणे भाष्यगाथे एव तत्स्वरूपप्रदर्शिके प्रदर्शयेते, तथाहि - " दिसिवडियस्स पढमोऽतिग मे ते चैव सेसया तिन्नि ।। विदिसि द्वियस्स समया, पंचातिगमम्मि जं दोण्णि || ३८६ | | " व्याख्या - सनाढ्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यप्रवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेजहमे भागे' इत्यादिवक्ष्यमाणगाथावृत्ती कथमिति चेदित्यादिना वक्ष्यते । लोकान्तेऽपि स्वयम्भूरमणपरतटवर्तिनि चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्योर्ध्वाधोलोकस्खलितत्वाद्भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यप्रवेशे, त्रयस्तु समयाः शेषास्तथैव, त्रसनाडीबहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पश्च समया लगन्तीति विशेषः । कुतः इत्याह- 'अतिगमम्मि जं दोणि त्ति' विदिशः सकाशाद्भाषाद्रव्याणि सनाडीबहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति इत्येवं यस्मादतिगमे नाडीमध्यप्रवेशे द्वौ समयौ लगतः । शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः इत्येवं पञ्चसमयाः सर्वलोकापूरणे प्राप्यन्त इति ॥ ३८६ ॥
For Print And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandir
( योजित
पाठः ) लोकान्तवत्रिसना डी.
बहिर्व्यव
स्थितवक्तृ
भाषाद्रव्यैश्वतुस्समयैर्लो
कपूरणं त्रसनाडीहदिविस्थतव
क्तृभाषया पञ्चसमयैलोकपूरमित्युपदर्शनम् ॥