________________
Sara Kendra
Acharya ShatkadassigaisanGyanmantire
RECENGALOR
PAGE
त्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासम्भवात्, कुड्यादिप्रतिघाततोऽपि न तेषां विदिक्षु गमनमतिसूक्ष्मत्वात्, लेष्टादिवादरद्रव्याणामेव ततो विदिक्षु गमनात्, निसर्गसमयानन्तर समयान्तरेषु तेषां भाषापरिणामेनानवस्थानादेव न स्वतो विदिक्ष गमनसम्भवः "भाष्यमाणैव भाषा भाषा, भाषासमयानन्तरं भाषाऽभाषेव" इतिवचनात्, द्वितीयादिसमयेषु भाषाद्रव्यैर्वासितानि समुत्पन्नशब्दपरिणामानि द्रव्यान्तराण्येव भाषा तामुपादायैव "चउहि समयेहिं लोगो भासाए निरंतरं तु होइ फुडो" इति वचनप्रवृत्तिरविरुद्धा, समश्रेणिव्यवस्थितः श्रोता वक्तृनिसृष्टं शब्दं शृणोति, विश्रेणिस्थः तद्वासितानि द्रव्याणि द्वितीयसमये विदिक्षु गतानि शब्दस्वभावमापन्नानि शृणोतीत्येवं समयभेदेऽपि तदनुपलक्षणमतिसौक्ष्म्यात् । घ्राणादीन्द्रियग्राह्याणां मिश्रस्वभावानां गन्धादिद्रव्याणां चादरत्वेनानुश्रेणिगमननियमो नास्तीति, तदुक्तं नियुक्तिकृता "भासासमसेढीओ, सई जं सुणइ मीसयं सुणइ ।। वीसेढी पुण सई, सुणेइ नियमा पराघाए ।। ३५१॥" इति, भासासमसेढीओ इति गाथार्थोपोद्वलकं भाष्यगाथात्रयं
यथा "सेढी पएसपंती, वदतो सव्वस्स छदिसि ताओ । जासु विमुक्का धावइ, भासा समयम्मि पढमम्मि ॥ ३५२ ।। भासा- | ६ समसेढिठिओ, तब्भासामीसियं सुणइ सई ।। तद्दव्वभावियाई, अण्णाई सुणइ विदिसत्थो ॥ ३५३ ॥ अणुसेढीगमणाओ, पडि-
धायाभावओऽनिमित्ताओ ।। समयंतराणवस्था-णओ य मुक्काई न सुणेइ ।।३५४॥” [भाषासमश्रेणीतः, शब्द यं शणोति मिश्रकं शृणोति । विश्रेणिः पुनः शब्दं, शृणोति नियमात्पराधाते ॥ श्रेणिः प्रदेशपंक्तिर्वदतः सर्वस्य षट्सु दिक्षु ताः।। यासु विमुक्तो धावति भाषासमये प्रथमस्मिन् ॥ भाषासमश्रेणिस्थितस्तद्भाषामिश्रितं शृणोति शब्दम् ।। तव्यभावितान्यन्यानि, शृणोति बिदिकथः ॥ अनुश्रेणिगमनात्प्रतिघाताभावादनिमित्तात् ।। समयान्तरानवस्थानाच मुक्तानि न शृणोति ॥ ] ॥ इति ॥ व्यक्तार्थमदः ।।
(योजितः
पाठः) श्रोत्रविषय
शब्दतो घ्राणादिग्रा. ह्यगन्धादीना | मनुश्रेणिग| मननियमाभावो विशेष उपपादितः ।
Foc w
And Personal Lise Only