________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं भीज्ञाना
नव
प्रकरणम् ।। 11 104 11
www.ketafirth.org
[द्वादशभ्यः श्रोत्रं, शेषाणि नवभ्यो योजनेभ्यः । गृह्णन्ति प्राप्तमर्थ - मितः परतो न गृह्णन्ति ॥] इति।। द्वादश-नवयोजनेभ्यः परतः समागतानि शब्दगन्धादिद्रव्याणि मन्दपरिणामभावेन स्वस्वज्ञानानुकूलपरिणामानासादनतो न श्रोत्रघ्राणादिविज्ञानं जनयन्ति श्रोत्रादीन्द्रियाण्यपि तथाविधसामर्थ्याभावान्न परतः समागतानि शब्दादिद्रव्याणि गृहीत्वा स्वविज्ञानं जनयन्ति, तदिदं विषयपरिमाणमुत्कृष्टत इन्द्रियाणां ज्ञेयं, जघन्येन तु नयनभिनेन्द्रियाणां असङ्ख्याततमादङ्गुला संख्येयभागादागतो विषयो ग्रहणगोचरः, तदुक्तं भाष्यकृता " दव्वाण मंदपरिणा-मयाए परओ न इंदियबलंपि ॥ अवरमसंखेज्जंगुल - भागाओ नयणवज्जाणं ।। ३४९ ।। " [ द्रव्याणां मन्दपरिणामतया, परतो नेन्द्रियबलमपि || अपरमसंख्येयांगुल भागाद् नयनवर्जानाम् ॥ ]
नयनस्य त्वतिसन्निकृष्टाञ्जनशलाकादेरग्राहकस्य जघन्येनाङ्गुलसङ्ख्ये य भागाद्विषय परिमाणनियमः, मनसस्तु मृर्तामूर्तसमस्तविषयक स्थानियमेन दूरे आसने च प्रवर्तमानस्य पुद्गलमात्र निबन्धनियतत्वाभावात्केवलज्ञानवन्नास्त्येव विषयपरिमाणम्, पुद्गलमात्रनिबन्धनियतश्रोत्रादीन्द्रियप्रभवयोर्मतिश्रुतज्ञानयोरपि विषयपरिमाणस्य सद्भावान्न ताभ्यां व्यभिचार इति बोध्यम्, तदुक्तं भाष्यकृता " संखेज्जइभागाओ, नयणस्स, मणस्स न विसयपमाणं || पोग्गलमित्तनिबन्धा-भावाओ केवलस्सेव ॥ ३५० ॥" [संख्येयभागतो नयनस्य, मनसो न विषयप्रमाणम् ॥ पुद्गलमात्रनिबन्धा - ऽभावात्केवलस्येव ॥] इति, श्रोत्रस्य प्राप्तकारित्वेऽयमपि विशेषो ज्ञेयः, यदुत, भाषकस्यान्यस्य वा भेर्यादेः समश्रेणिव्यवस्थितः श्रोता भाषक भेर्यादिसम्बन्धिनं भाषकोत्सृष्टशब्दद्रव्याणि तद्वासिताऽपान्तरालस्थद्रव्याणि चेत्येवं मिश्रं शब्दद्रव्यराशिं शृणोति न तु वासकं वास्यमेव वा केवलम् विश्रेणिव्यवस्थितः श्रोता तु भाषकोत्सृष्टशब्दद्रव्यैः भेर्यादिशन्दद्रव्यैर्वा वासितानि समुत्पन्नशब्दपरिणामानि द्रव्याण्येव शृणोति, न तु भाषकाद्यु
For Print And Personal Use Only
Acharya Shel Kailasagasun Gyanmandir
( योजित: पाठः ) तृतीयस्त रङ्गः ॥ श्रोत्रादीन्द्रियविषय परिमाणमु
त्कृष्टतो बिभागेनोपदयं जघन्येन
| तदुपदर्शितं नयनस्य तत्र विशेष:, म नसं विषय
परिमाणाsनियमः श्रो.
त्रे विशेषान्तरच ॥ 11 194 11