________________
S
a
kanda
Achatya Sas
s
Gym
सविवरणं श्रीज्ञाना
RAS
व
प्रकरणम् ॥ ॥७२॥
PLEASEARCLEARCH
व्यञ्जनावग्रहश्चतुर्धा नयनमनसोरप्राप्यकारित्वव्यवस्थापनतस्तयोर्न व्यञ्जनावग्रहः, इत्येवं पूर्वमेव निर्णयः कृतः, इदानीं तेषु तत्र विशेष उपदर्यते-श्रोत्रं स्पृष्टमात्राण्येव शब्दद्रव्याण्युपलभते, तानि प्राणेन्द्रियादिविषयीभूतद्रव्येभ्यः सूक्ष्माणि, बहूनि, भावुकानि च, विषयपरिच्छेदे घ्राणेन्द्रियादिगणात्पटुतरं च श्रोत्रेन्द्रियम्, घ्राणरसनस्पर्शनेन्द्रियाणि स्वस्वविषयं बद्धस्पृष्टं गृहान्ति, घ्राणस्य विषयो गन्धः, रसनाया विषयो रसः, स्पर्शनस्य विषयः स्पर्शः। स्पृष्टमित्यालिङ्गितं, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशैः, घाणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि,बादराणि,अभावुकानि च,विषयपरिच्छेदे श्रोत्रापेक्षयाऽपटूनि च घ्राणादीनि,अत एव बद्धस्पृष्टमेव स्वस्वविषयं गृह्णन्ति,न स्पृष्टमात्रम्, चक्षुरिन्द्रियन्तु अप्राप्तमेव विषयं गृह्णाति, अप्राप्तत्वाविशेषे कथं न सर्वस्य ग्रहणमिति नाशङ्कथं, यतोऽप्राप्तमपि योग्यदेशस्थमेव पश्यति, नायोग्यदेशस्थमिति, उक्तार्थोपोद्वलिकां 'पुढे सुणेइ सई' इत्यादिनियुक्तिगाथां सम्बन्धयन्नाऽह भाष्यकारः॥ “सोत्ताईणं पत्ताइ-विसयया पुव्वमस्थओ भणिया । इह कंठा सट्ठाणे, भण्णइ विसयप्पमाणं च ॥३३५॥ पुढे सुणेइ सई, रूवं पुण पासइ अपुढं तु ॥ गन्धं रसं च फासं च, बद्धपुढे वियागरे।।३३६॥ इति, 'पुढे सुणेइ सई' इति नियुक्तिगाथाव्याख्यानरूपाश्चेमा भाष्यगाथाः, तद्यथा-"पुढे रेणुं व तणुम्मि, बद्धमप्पीकयं पएसेहि।। छिकाई चिय गिण्हइ, सहदव्वाई ताई।।३३७॥बहुसुहुमभावुगाई, जे पटुयरं च सोत्तविण्णाणं ।। गंधाईदव्वाई, विवरीयाई जओ ताई।।३३८।। फरिसाणंतरमत्त-प्पएसमीसीकयाई घेप्पंति ।। पड्डयरविण्णाणाई, जंच न घाणाइकरणाई॥३३९॥"[श्रोत्रादीनां प्राप्तादि-विषयता पूर्वमर्थतो भणिता।।इह कण्ठात्स्वस्थाने,भण्यते विषयप्रमाणं च।।स्पृष्टं श्रृणोति शब्दरूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ।। स्पृष्टं रेणुरिव तनौ बद्धमात्मीकृतं प्रदेशैास्पृष्टा
( योजितः
पाठः) ॥ तृतीयः
तरङ्गः ॥ | मतिज्ञान
प्ररूपणसक्ने इन्द्रियाणां विषयग्रहणस्वरूपोपदर्शनम्॥
BHIBHRECE
॥७२॥
Fat PW
And Penal Use Only