SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kratatirth.org कालमर्णतं सुहं लहइ ॥ ६ ॥” इति ।। [काले शिक्षते ज्ञानं, जिनभणितं परमभक्तिरागेण || दर्शनप्रभावकाणि च शिक्षते शास्त्राणि काले | काले च भक्तपानं, गवेषयेत्सकलदोषपरिशुद्धम् । | आचार्यादीनामर्थाय प्रवचनमातृषूपयुक्तः । एवं समाचरन्काले काले विशुद्धपरिणामः ॥ अस्रवद्योगकारी श्लाघनीयश्च भुवने । सकलसुरासुरप्रणतजिन - गणधरभाषितक्रियाविधिकुशलः | आराध्य सम्यक्त्वज्ञान चरणानि परमाणि ।। सप्ताष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् ।। उत्पाद्य गच्छति विधुतमलः शाश्वतं मोक्षम् ।। तत्र च जराजन्ममरणरोगतृष्णा क्षुधाभयविमुक्तः ॥ साद्यपर्यवसानं कालमनन्तं सुखं लभते ।।] तेषु मतिज्ञानभेदेषु चतुर्षु अर्थवग्रहादिषु एकसमयोऽर्थावग्रहः समयः सर्वजघन्यः कालविशेषः, ईहापायावन्तमुहूर्तम्, व्यञ्जनावग्रहव्यावहारिकार्थावग्रहावपि तथैव, अविच्युतिस्मृतिवासनाभेदात् त्रिविधा धारणा, तत्राऽविच्युतिः स्मृतिश्च प्रत्येकमन्तर्मुहूर्तं भवति, स्मृतिबीजभूता तदर्थज्ञानावरणक्षयोपशमरूपा वासना तु संख्येयवर्षायुषां सत्त्वानां संख्येयं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनाम संख्येयं कालम्भवति, तदुक्तं निर्युक्तिकृता ॥ “ उग्गहो एवकं समयं, ईहा वाया मुहुत्तमेतं तु ॥ कालमसंखं संखं च, धारणा होइ नायव्वा ॥ ३३३ ॥ " इति [ अवग्रह एकं समयं ईहापायौ मुहूर्तान्तस्तु ।। कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ] नैयिकार्थावग्रह एकसमयः, वासनारूपधारणाम्मुक्त्वाऽन्ये व्यञ्जनावग्रह - व्यावहारिकार्थावग्रहापाया विच्युतिस्मृतिरूपा मतिभेदाः पृथगेकमेवान्तर्मुहूर्तं भवन्ति । यदाह भाष्यकारः ॥ “ अत्थोग्गहो जहनो, समयं सेसोग्गहादओ वीसुं ।। अंतमुत्तमेगं तु, वासनाधारणं मोतुं ॥ ३३४ ॥ | " [ अर्थावग्रहो जघन्यः समयं शेषाऽवग्रहादयो विश्वक् अन्तर्मुहूर्तमेकं तु वासनाधारणां मुक्त्वा ] इति स्थितिविचारः ॥ नयनमनोभिन्नानां श्रोत्रादीनां चतुर्णामिन्द्रियाणां प्राप्यकारित्वव्यवस्थापनतस्तेषां For Print And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir ( योजित: पाठ: ) | मतिज्ञान प्ररूपणप्रस ङ्गेऽअर्थावग्र महादीनां का लमानप्रदर्शनं ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy