________________
S
a
kanda
Achatya Sas
s
Gym
सविवरण भीज्ञाना
(योजितः पाठः) तृतीयस्तरङ्गः
र्णव
मतिज्ञान
प्रकरणम्॥ ॥ ७१ ॥
CBSEBRUARKARAN
यतोऽनन्तधर्माऽध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एकमर्थं साधयन्ति, किन्तु यो धर्मो यत्रार्थे योग्यस्स एव तमेवार्थ साधयति यथा कलशमल्लकादीनां मृद्धर्मत्वे समानेऽपि कलश एव मङ्गलादिकार्येषु व्याप्रियते, एवं यद्यपि मोक्षादिसाधनस्य मिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षस्य साधकः, किन्तु तद्विपक्षभूतस्य संसारादिकस्यैव, मोक्षादेस्तु तत्साधनयोग्यः सम्यग्ज्ञानादिको धर्म एव साधक इति वस्तुस्थिती मोक्षेऽयोग्यं मिथ्याज्ञानादिकमयोग्यतयाऽपश्यंस्तत्र व्यापारयति मिथ्यादृष्टिरतस्साधनविपर्ययं कुर्वतोऽस्याज्ञानमेव, तदाह भाष्यकार:-"जइ सो वि तस्स धम्मो, किं विवरीयत्तणं तितं न भवे ।। धम्मो वि जओ सब्बो, न साहणं किंतु जो जोग्गो॥३३१ ।। जोग्याजोग्गविसेस, अमुणतो सो विवजयं कुणइ ।। सम्मट्ठिी उण कुणई, तस्स सट्ठाणविणिओगं ।।३३२॥” [यदि सोऽपि तस्य धर्मः किं विपरीतत्वमिति तम भवेत् । धर्मोऽपि यतः सर्वो न साधनं किन्तु यो योग्यः॥ योग्यायोग्यविशेषमजानन् स(मिथ्यादृष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति, तस्य स्वस्थानविनियोगम] इति । योग्यमयोग्यञ्च धर्म जानन् स्थाने व्यापारयश्च सम्यग्दृष्टिः सम्यगाराधको भूत्वा समीहितफलभाग्भवति ॥ उक्तं च-"काले सिक्खइ नाणं, जिणभणिअं परमभत्तिराएण । दसणपभावगाणि अ,सिक्खइ सत्थाई कालम्मि ॥१॥ काले य भत्तपाणं, गवेसए सयलदोसपरिसुद्धं ॥ आयरियाईणट्ठा, पवयणमायासु उवउत्तो ।। २ ॥ एवं समायरंतो, काले कालं विसुद्धपरिणामो ॥ असवन्तजोगकारी, सलाहणिज्जो य भुवणम्मि ॥ ३ ॥ सयलसुरासुरपणमिय-जिण-गणहरभाणियकिरियविहिकुसलो ॥ आराहिऊण सम्म-त्त-नाण-चरणाई परमाई ॥ ४ ॥ सत्तट्ठभवग्गहण-भतरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ, विहुयमलो सासयं मोक्खं ॥५॥ तत्थ य जर-जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्को । साइ अपञ्जवसाणं,
ॐॐॐ
प्ररूपणप्रस
सभ्यग्दशां ज्ञानस्य मोक्षसाधकत्वं तदनुकूलाऽनुष्ठान क्रमोपदर्शनश्च ।।
AkRS
॥ ७१॥
Fat PW
And Penal Use Only