SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kratatirth.org त्वात् न च निर्वचनेनैव विशेषान्तर्भाव इति शङ्कनीयं मिथ्यादृष्टिसूत्रानुरोधेन तत्र विशेषान्तर्भावावश्यकत्वात् न च मोक्षहेतोः सम्यग्दर्शनविशिष्टज्ञानस्य सम्यग्दृष्टौ विशेष्यशङ्काप्रयुक्तशङ्कया] प्रश्नस्तन्निर्वचनश्च सङ्गच्छेते इति वाच्यम्, सम्यग् - दर्शन विशिष्टज्ञानत्वेन मोक्षा हेतुत्वाद्विशिष्टज्ञानत्वेनैव तथात्वात्सामान्यपदेन विशेषप्रश्नानौचित्याच्च, अपि च सम्यग्दृष्टिसूत्रस्थप्रश्नवाक्यद्वये ज्ञानपदस्यैकरूपस्यैव निवेशात्कथं निर्वचनसूत्रयोविंशेषगर्भत्वं प्रश्नसमानाकारस्यैवोत्तरस्य युक्तत्वात् नहि भूतले घटोsस्ति नवेति प्रश्न भूतले नीलघटोऽस्तीत्युत्तरमुञ्चन्ति विपश्चितः, एवश्व स्वस्थितशङ्काविरहेऽपि शिष्यजिज्ञापयिषोत्थापितशङ्कया प्रश्न इत्युक्तिरपि न युक्तेति चेत्, न, सम्यग्दर्शनविशिष्टज्ञानस्यैव मोक्षौपयिकतया नैश्वविक ज्ञानत्वात्प्रश्ननिर्वचनवाक्ययोस्तु सामान्यपदगर्भयोरपि विशेषाभिप्रायप्रयुक्ततया विशेषे पर्यवसानात्, तथाहि निश्चयाभिप्रायेण सम्यग्दृष्टिर्ज्ञानी नवेति प्रयुक्तस्य प्रश्नवाक्यस्य सम्यगृष्टिर्मोक्षौपयिकज्ञानवान्न वेत्यर्थात् ततः सम्यग्दृष्टिर्ज्ञान्येवेति निर्वचनवाक्यस्य सम्यग्दृष्टिर्मोक्षौपयिकज्ञानवानेवेत्यर्थात् यदभिप्रायेण प्रश्नस्तदभिप्रायेणैवोत्तर प्रदानात्, एवं मिथ्यादृष्टिसूत्रेऽपि भावनीयं, न च विशेषाभिप्रायेणापि प्रयुक्तात् सामान्यपदान्न विशेषोपस्थितिरिति शङ्कनीयं, भोजनाभिप्रायेण सैन्धवप्रश्ने तदुत्तरवाक्यस्थसैन्धवपदालवणानुपस्थितिप्रसङ्गादिति दिग् ॥ १८ ॥ अथ प्रकारान्तरेण संशयादिकालेऽपि सम्यग्दृशो ज्ञानं मिथ्यादृशश्च निर्णयकालेऽप्यज्ञानं समर्थयतिसम्यग्दृशः संशयो वा, ज्ञानं ज्ञानोपयोगतः ॥ मिथ्यादृशां किलाज्ञानं, सर्वो बोधस्तमन्तरा ॥ १९ ॥ सम्यग्दृशः संशयः, उपलक्षणाद्विपर्यासानध्यवसायौ च ज्ञानमेव ज्ञानोपयोगात्, 'यो यदुपयुक्तः स तन्मयो' यथेन्द्रज्ञानोपयुक्तो दरिद्रोऽपीन्द्र एव वर्तते च सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभात्सम्यग्दृशः सर्वदैव ज्ञानपरिणामरूपज्ञानोपयोग For Print And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir | मतिज्ञानप्ररूपणात्रसङ्गे सम्य म्हशां संशयादीनामपि | ज्ञानत्वं मि. थ्यादृशां चा ज्ञानत्वमि 'युक्त्य न्तरेणाप्यु | पपादनम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy