________________
ShrMatiavr Jain ArachanaKendra
सविवरण श्रीज्ञाना
र्णवप्रकरणम्॥ ॥७०॥
मात्र, तस्मात्तस्य संशयादिकालेऽपि मौलज्ञानोपयोगयोगादप्रत्यूहमेव ज्ञानमिति । तदाह-"अहवा जहिंदनाणो-वओगओ तम्मयत्तण होइ ।। तह संसयाइभावे, नाणं नाणोवओगाओ ॥३२५॥ [अथवा यथेन्द्रज्ञानोपयोगतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात् ] मिथ्यादृशस्तु निर्णयकालेऽपि सम्यग्दर्शनाविनाभाविज्ञानोपयोगयोर(स्याऽ)भावादज्ञानमेव, उपयोगग्राहिणा नयेन तत्कार्यान्तरमनपेक्ष्य तदुपयोगेनैव तन्मयत्वव्यवस्थापनादिन्द्रपदार्थ परमैश्वर्यमनपेक्ष्यैवेन्द्रोपयोगवत इन्द्रत्वाभ्युपगमात् ।। तदाह-"तुल्लमिणं मिच्छस्स वि, सो सम्मत्ताइभावसुन्नोति ।। उबओगंमि वि तो तस्स, णिच्चमन्नाणपरिणामो ॥३२६।। जं निन्नओवओगे वि, तस्स विवरीयवत्थुपडिवत्ती ।। तो संसयाइकाले, कत्तो नाणोवओगो से।।३२७॥" [तुल्यमिदं मिथ्यादृष्टेरपि स सम्यक्त्वादिभावशून्य इति ।। उपयोगेऽपि ततस्तस्य नित्यमज्ञानपरिणामः ।। यनिर्णयोपयोगेऽपि तस्य विपरतिवस्तुप्रातिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ॥] ॥ १९ ॥ तदेवं साधितमभ्युपगम्यानिश्रितादीनां संशयादिरूपत्वेऽपि सम्यग्दृशां ज्ञानत्वम् , अथ सामान्यतो ज्ञानाज्ञानरूपाया एव मतेर्निरूपणीयत्वान्न किश्चिद्दष्यतीत्याहसामान्यतो निरूप्यत्वा-न्मतेः कापि न च क्षतिः । ज्ञानाज्ञानविभागस्तु, ज्ञेयो फलविभागतः ॥ २०॥
इह हि 'आभिणिवोहियनाणं, सुअनाणं च' इत्यादिगाथायां श्रुतज्ञानं तावद् योगार्थमात्रपुरस्कारेण ज्ञानज्ञानोभयसाधारणमेव निर्दिष्टमिति, यथा-"अक्खरसन्नीसम्म' इत्यादिनाऽभिधास्यमानेषु चतुर्दशसु तद्भदेषु मिथ्याश्रुतस्यैषां ग्रहप्रसङ्गाद्, एवं च मतिज्ञानमपि सङ्ग्रहलाघवाद् ज्ञानाज्ञानोभयसाधारणमेवोक्तमिति सम्यग्दृष्टिसम्बन्धिनां संशयादीनामज्ञानत्वेऽपि न क्षतिरिति।।तदाह"अहवा जह सुयनाणा-वसरे सामनदेसणं भणिअं ।। तह मइनाणावसरे, सबमइनिरूवणं कुणइ ।।३२८॥" [अथवा यथा श्रुतज्ञा
तृतीयस्तरहः मतिज्ञाननिरूपणप्रस
ड्रेन सम्यम्हशामुपयोगप्रकारेण | ज्ञानत्वं मि
ध्यादृशां चा४ज्ञानत्वमिति
सगर्थितम् ॥
IM
Fox PW
And Penciale Only