________________
S
a
kanda
Acharya Shalatan Gyaan
R
बहुविषयग्राहित्वं 'नानाशब्दा एते' इत्यादिसामान्यज्ञानं हि तदिति, एवम् अशेषस्वविषयनिष्ठानेकासाधारणधर्मव्याप्यबहुतरधर्मावगाहिज्ञान' बहुविधं, न चैवं बहुविधस्यापि बहुत्वापत्तिस्तल्लक्षणसत्त्वादिति वाच्यम्, उपधेयसङ्करेऽप्युपाध्योरसङ्कराद्विवक्षाद्वैविध्येन तत्र द्विधाव्यवहाराच्च, अबहुविधत्वं च न बहुविधभिन्नज्ञानत्वं, बहुज्ञानेऽतिव्याप्तेः, किन्त्वच हुविधमित्यत्र नञः पर्यदासाश्रयणाद्'अशेषस्वविषयनिष्ठानेकासाधारणधर्मव्याप्यस्वल्पतरधर्मावगाहित्वं तदिति, बहुबानेन पृथग्भिन्नजातीयतया गृहीतेषु नानाशक्खपणवादिशब्देषु एकक शखभेयोदिशब्दमाश्रित्य स्निग्धत्वमधुरत्वतरुणमध्यमपद्धपुरुषवाद्यत्वा- दिबहुविधधर्मवशिष्टचं गृहदेव हि बहुविधज्ञानमुदाहियते, तत्र स्निग्धमधुरत्वादिस्वल्पधर्मवैशिष्टयज्ञानश्चाबहुविधमिति । क्षिप्रत्वं च नाविलम्बितोत्पत्तिकत्वम्, अक्षिप्रत्वञ्च न विलम्बितोत्पत्तिकत्वं, सामग्रीसन्निधानासन्निधानाभ्यां सर्वस्यापि विलम्बिताविलम्बितोत्पत्तिकत्वात्,नापि विमर्शानपेक्षोत्पत्तिकत्वं क्षिप्रत्वम्, अपायस्य सतो विमर्शसव्यपेक्षत्वनियमात्, किन्तु 'झटित्युपनतसामग्रीकत्वं' क्षिप्रत्वं, अतादृशत्वं त्वक्षिप्रत्वमिति ॥'झटिति सामग्रथुपनिपातनियामकादृष्टजन्यतावच्छेदकजातिविशेषववं' क्षिप्रत्वमित्यपि कश्चित्, 'प्रबलतरसंस्काराधीनझटित्युपस्थितिकविमर्शजन्यत्वं' तत्त्वमित्यन्ये ॥ अनिश्रितं लिङ्गानपेक्षोत्पत्तिकं पताकादिनिश्रया देवकुलादिदर्शनवद्, यम लिङ्गनिश्रामपेक्षते यद्यप्यन्वयव्यतिरेकधर्मान्वेषणरूपामीहामपेक्षमाणः सर्व एवाऽपायो लिङ्गमपेक्षत एव तथाप्यनुमितिसामग्रीसम्पत्तिरूपा लिङ्गनिश्रा यत्र नास्ति तदनिश्चितं, अन्यत्तु निश्रितमिति ध्येयम् । निश्चितत्वमसन्दिग्धविषयकत्वं 'प्रामाण्यसंशयादिरूपविषयसंशयसामग्रथनास्कन्दितत्वम्', तद्विपरीतत्वमनिश्चितत्वं, ध्रुवत्वं च 'सर्वकालमेकजातीयसामग्रीसमुत्पाद्यत्वम्', अतादृशत्वं त्वध्रुवत्वमिति । आह च
अMCGleeCUPECHAR
॥मतिज्ञानप्ररूपणप्रसङ्गे बहुबहुविधादिदाना णानि तात्पर्यप्रकाशन
EGISTRA
Fat PW
And Penal Use Only