________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
सविवरण श्रीज्ञाना
पाव
प्रकरणम्।। ॥६२॥
BACHCECEILLGES
सञ्जिवृक्षुराह-"थाणुपुरिसाइकुछ-प्पलाइसंभियकारल्लमसाइ । सप्पुप्पलणालाइ व, समाणरूवाई विसयाई ।। २९३ ॥" [ स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकरीलमांसादि ॥ सोत्पलनालादिवत्समानरूपादिविषयाणि ॥ ] संभियकरिल्लत्ति संभृतानि संस्कृतानि, करीलानि वंशजालफलानि, स्पष्टमन्यत् ॥४॥ ननु प्रत्यासत्तियदि स्वरूपसतीहानिबन्धमं तबैकत्र धर्मिणि दृष्टे सकलतस्प्रत्यासमवस्त्ववलम्बीहोदयप्रसङ्गोऽविशेषात, न च प्रत्यासत्तिग्रहस्य तद्धेतुत्वान्न दोष इति वाच्यम्, सद्गर्भाया: सादृश्यरूपप्रत्यासत्तेग्रहे संशयाभावात्तत्पूर्वकेहाया अप्रवृत्तेरित्यत आह
सारूप्यज्ञानमीहादी, कोटिस्मारकतां भजत् ॥ नियन्तुं प्रभवत्युच्चै-रुभयस्यावलम्बनम् ॥५॥ __ स्थाणुपुरुषयोः सादृश्यज्ञाने सति हि स्थाणुदर्शनोतरमुबुद्धसंस्कारेण स्थाणुत्वपुरुषत्वोभयकोटिस्मरणेन तदुभयसहचरितधर्मवत्ताज्ञानेन दोषमहिम्नाऽसंसर्गाग्रहाच्च संशयोत्पत्तावीहादिप्रादुर्भावातत्रोभयावगाहित्वं नानियतं, एतेन ' भ्रमसंशयोत्तरप्रत्यक्षं प्रत्येव विशेषदर्शनस्य हेतुत्वात्सर्वत्र प्रत्यक्षनिर्णये ईहाया हेतुत्वमप्रमाणिकमिति' निरस्तं, संशयोत्तरमेव निर्णयाभ्युपगमाद् , वस्तुतः संशयोत्तरप्रत्यक्षत्वं न विशेषदर्शनकार्यतावच्छेदकं, संशयोत्तरत्वस्य दुर्वचत्वात, संशयोत्तरं विशेषदर्शनं विनाऽपि संशयानुत्तरप्रत्यक्षप्रसङ्गाच्च, संशयानुत्तरप्रत्यक्षे संशयाभावस्य हेतुत्वकल्पनेऽतिगौरवात् प्रत्यक्षनिश्चयत्वावच्छिन्नं प्रतीहाया हेतुत्वस्यैव युक्तत्वात्, ॥१॥ अथ " से जहा णामए केइ पुरिसे अवत्तं सुमिणं पासिज्जा" इत्यादि सूत्रमनुसृत्येन्द्रियाणामिव मनसोऽप्यवग्रहादयः स्वप्नादौ सम्भवन्तीत्याह
स्वप्नादावपि शब्दादि-विषयावग्रहादयः ॥ मनसोऽपि लसन्त्येव, हृषीकव्यापृति विना ॥६॥
तृतीयस्तरङ्गः मतिज्ञाननिरूपणप्रस
नेहादि. निरूपणे द्दष्टान्तीकृतप्रत्यासन्नवस्तु प्ररूणं प्रत्यासत्ति|स्वरूपं च ॥
॥६२॥
Fat PW
And Penal Use Only