________________
S
a
kanda
Achatya Sas
s
Gym
AMOURCTCHECIRCULAR
तत्संस्काराद्दण्डीतिबुद्धिप्रसङ्गात्, तत्ताज्ञानं विना कथं तदनुभव इति वाच्यम्, प्रकारतया संस्काराजन्यज्ञानत्वावच्छिन्नं प्रत्येवमतिज्ञानविषयतया ज्ञानत्वेन हेतुत्वात्, इत्थं च तच्छब्दप्रयोगहेतुतापि तत्ताप्रकारकज्ञानत्वेनैवेति स्मृतिप्रत्यभिज्ञयोस्तचोल्लेख इति न निरूपणप्रकिश्चिदेतत, किंबहुना ? स घटः सोऽयं घट इति स्मृतिप्रत्यभिज्ञानयोस्तत्वांशे समानाकारत्वात्प्रत्यभिज्ञायाः प्रामाण्ये स्मृतेरपि | | सङ्गेस्मृतेः प्रामाण्यं,स्मृतेरप्रामाण्ये च तथा प्रत्यभिज्ञाया अपि तथात्वं प्रसजेदिति दुरुद्धरा प्रतिबन्दी,न चेदन्तासंस्कारस्यातीततत्तद्धर्मवैशिष्टय- प्रामाण्ये प्रस्मृतावेव हेतुत्वमिति युक्तं,एकाकारत्वभङ्गप्रसङ्गाद् गौरवाच्च, यत्तु'स्मृतेर्याथार्थेऽपि न प्रमात्वं यथार्थानुभवत्वस्यैव तत्त्वात्, माणविभागअन्यथा स्मृतेः प्रमात्वे तदसाधारणकारणस्य संस्कारस्य पृथक्प्रमाणत्वप्रसङ्गे मुनिप्रणीतप्रमाणविभागव्याघातप्रसङ्गादिति', व्याधातातत्तु स्वगृह एव प्रोच्यमानं भ्राजमानतां भजेन तु कथायां, अस्माकंतु प्रत्यक्षत्वपरोक्षत्वाभ्यां द्विधैव प्रमाणविभागाभिधानात्, शंकापरिहार: स्मृतेः परोक्षकुक्षावेव निक्षिप्तत्वान किश्चिदनुपपन्नं ।। तस्मात्सत्यप्रवृत्तिजनकत्वादनुभवस्येव स्मृतेरपि प्रामाण्यस्य निराबाधत्तात् तदुपसंहारः। साधूक्तमवग्रहेहापायधारणाभेदाच्चतुर्विधं मतिज्ञानमिति, अत्र चावग्रहादीन् शब्दोदाहरणेन सूत्रकारः प्रतिपाद्य “ एवं एएणं अभिलावेणं अव्वत्तं रूर्व रसं गंध फास" इत्याचतिदेशसूत्रमाह,ईहादीनामुभयवस्त्ववलम्बनं प्रति नियमकारणं पूरयंस्तदेवानुवदतिस्म भाष्यकार:-"सेसेसु वि रूवाइसु, विसएसु हुन्ति रूवलक्खाई ॥ पायं पच्चासन्न-तणेणमीहाइवत्थूणि ॥ २९२॥ [ शेषेष्वपि रूपादिषु, विषयेषु भवन्ति रूपलक्षाणि ॥ प्रायः प्रत्यासनत्वेनेहादिवस्तूनि ॥] प्रायः 'प्रत्यासत्तिर्हि बहुभिर्द्धः सादृश्य' तत्प्रतियोग्यनुयोगिनावेव धर्मिणावालम्ब्येहादीनां प्रवृत्तिस्वभाव इति, किमयं स्थाणुरुत पुरुष इतिवक्किमयं स्थाणुरुतोष्ट्र इति नेहोदयः, उष्ट्रे स्थाणुप्रत्यासत्यभावादत एव श्रोत्रेन्द्रियप्रत्यासन्नवस्तूपदर्शनं बहुशः प्रदर्शितमिति शेषेन्द्रियप्रत्यासन्नवस्तूनि
Fat PW
And Penal Use Only