________________
R
सविवरण श्रीज्ञाना
नवप्रकरणम् ॥ ॥६१॥
BRECRUA
तदा तदभ्युपगमेऽविवादाद, यदि पुनरभिलापस्तदा संस्कारजज्ञानत्वेन तद्धेतुत्वेन तदापत्यभावात्, तथाप्यनुभूतो घटोऽनुभूयमानो घट इत्यनुभवप्रभवस्मरणे तत्तोल्लेखप्रसङ्ग इति चेत्, न, पूर्वानुपस्थितानुभूतत्वानुभ्यमानत्वयोरेव तदन्तापदार्थत्वात्, प्रागनुभूतस्यापि कस्यचित् संसर्गत्वस्येव प्रकारत्वस्यापि सम्भवादित्याहुः, इदन्तानुल्लेख्यनुभवप्रभवस्मरणेऽपि तत्ताभानात्स्वसामग्रीमहिम्नैव तत्र तत्ता भासत इत्यन्ये, यत्तु तत्तेदन्ते स्मृत्यनुभवभासिनी अखण्डे एव वस्तुनी, एवं चेदन्तासंस्कारेणेदन्तैव तत्तया स्मयते प्रमुष्टतचाकं तु स्मरणं नास्त्येव ॥ हरिहराधनुचिन्तन( ना) च कविकाव्यमूलज्ञानवन्मनःप्रभवेति सर्वा स्मृतिरयथार्थेव, न च क्वचित्प्रमितस्यैवान्यत्रारोपात्कथमन्यत्राप्रमितायास्तचायाः स्मृताबारोप इति वाच्यम्, इदन्तायाः पृथग्भानेन विषयकत्वेन प्रत्यभिज्ञायां तत्तायाः प्रमितत्वात् स्मृताविदन्तायां तत्वारोपसम्भवात्, न च स्मृतेभ्रंमत्वे तन्नियामकनानादोषकल्पने गौरवमिति वाच्यम्, इदन्तांश उद्बुद्धसंस्कारस्यैव दोषत्वात्, इदन्तानुल्लेख्यनुभवप्रभवस्मरणेऽपि तत्तया धर्मान्तरस्यैवावगाहनान्न तस्या याथार्थ्यमिति, तत्तुच्छं, तत्तास्मृतेः पूर्वमिदन्तोपस्थिति विना तदारोपासम्भवादिदन्तोल्लेखानन्तरमेव तदारोप इत्यत्र मानाभावाद्, भावे वा इदन्तात्वेन तदुल्लखे विशेषदर्शनादारोपस्यैवाऽसम्भवात्, अपि चदन्ताविषयकसंस्कारस्य स्वरूपत एव तत्ताविषयकस्मृतित्वावच्छेदेनैव हेतुत्वाव स्मृतौ तत्तयेदन्ताभानासम्भवः, तत्वावच्छिन्नप्रकारताकस्मृतित्वावच्छेदेन तद्धेतुत्वकल्पनेतु तत्र तत्तया जगद्विषयकत्वप्रसङ्गात्,तत्तावच्छिन्दन्ताप्रकारकत्वस्य च स्वरूपतस्तत्वा प्रकारकत्वापेक्षया गौरवात्, अपि च तत्ताया अखण्डत्वे स्वरूपतस्तत्प्रकारकत्वावच्छिनं प्रत्येव प्रत्यभिज्ञानसाधारण्येनेइन्तांशे उबुद्धसंस्कारस्य हेतुत्वमुचितम्, न च प्रकारतयाऽनुभवत्वावच्छिन्नं प्रति विषयतया ज्ञानत्वेनैव हेतुत्वात्,अन्यथा दण्डाज्ञानेऽपि
॥ तृतीयस्तरङ्गः मतिज्ञाननिरूपणप्रसङ्गे युक्त्या धारणाभेदरू पस्मृति प्रामाण्यव्यवस्थापन।
KAKKARA
॥६१।