________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
RCMOUC5505555
CR
चानुभवस्मरणयोर्विषयकृतविशेषाभावेऽपि प्रत्यक्षज्ञानस्येदम्पदप्रयोगहेतुत्वात्संस्कारजन्यज्ञानस्य तच्छब्दप्रयोगहेतुत्वात्तदुभयामिलापवलक्षण्यात्स्मृतेरप्रामाण्येऽनुभवस्याप्यप्रामाण्यापत्तिः, स्मृतेर्याथार्येऽप्यनुभवप्रमात्वपारतन्त्र्यादप्रमात्वमितिचेत्,न,अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणायथार्थत्वप्रसङ्गाद्, अनुमितरुत्पत्चौ पयपेक्षा विषयपरिच्छेदे तु स्वातन्त्र्यमेवेति चेत्, न, स्मूतेरप्युत्पत्तावेवानुभवसव्यपेक्षत्वात्स्वविषयपरिच्छेदे तु स्वातन्त्र्यात्,अनुभवविषयीकृतभावावभासिन्याः स्मृतेविषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति चेत्, तर्हि व्याप्तिज्ञानादिविषयीकृतानर्थान् परिच्छिन्दन्त्या अनुमितेरपि प्रामाण्य दूर एव, नैयत्येनाभात एवार्थोऽनुमित्या विषयीक्रियत इति चेत्, तर्हि तत्तयाऽभात एवार्थः स्मृत्या विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् ।।
वस्तुतः स्मृतित्वप्रमात्वे जन्यत्वप्रयोज्यत्वरूपं नानुभवप्रमात्वपारतन्त्र्यं यदृच्छोपकल्पितं त्वप्रयोजकं, यदि वानुभूतधर्माश्रयत्वरूपा तत्ता स्मृतौ भासते इदन्तांशे उद्बुद्धसंस्कारस्यैव तत्तांशे स्मारकत्वात्फलबलेन तथात्वकल्पनाद्धर्मविशेषमादाय सहप्रयोगस्य समर्थनाद् ,अनुभवस्मरणयोर्विषयकृतविशेषाभावेऽपि संस्कारजज्ञानत्वेन स्मृतेस्तच्छब्दप्रयोगहेतुत्वे तु प्रमुष्टतत्ताकस्मरणादपि तच्छब्दोल्लेखप्रसङ्गात्, अनुभवे यद्धर्मवैशिष्टयभानं तस्यातीतत्वं तत्ता स्मृतौ भासत इत्यभ्युपगमे चानागतविषयकस्मरणादौ तत्तांशेऽप्ययथार्थत्वप्रसङ्गादिति विभाव्यते, तदाप्यनुभूतधर्मे विद्यमानत्वस्याबाधान तस्या अयथार्थत्वम् ।।
सम्पदायानुसारिणस्त्वनुभूयमानत्वलक्षणेदन्तानुभवे भासतेऽनुभूतत्वरूपा च तत्ता स्मृतौ भासतेऽत एव स घट इति स्मृत्यभिलापस्य यः प्रागनुभूत इति विवरणं सङ्गच्छते, इदन्ताविषयकानुभवादेव च तत्ताविषयकं स्मरणमुन्मीलति तं विना तु प्रमुष्टतत्ताकं तत्, न चानुभूतत्वमेव यदि तत्ता तदा तदवगायनुमितावपि तचोल्लेखप्रसङ्ग इति वाच्यम् , उल्लेखो यदि विषयता
११
॥ मतिज्ञानमेदधारणाप्ररूपणाप्रसङ्गेन पराभिमतस्मत्यप्रामाण्याशंकापरिहारः अनुमितिनिदर्शनेन युक्त्या च तत्प्रामाण्य
व्यवस्थापन x साम्प्रदायिक
तत्त्वप्रदर्शनंच
RANGEECH
Fat PW
And Penal Use Only