SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सविवरण श्रीज्ञाना मग्रीमहिम्ना कपाले पुनस्तदुत्पत्त्यापत्तिप्रसङ्गादिति चेत्, उच्यते, घटोऽयं घटोऽयमित्यनुभवधारादर्शनेन तदपलापो दुष्करोऽपायसत्त्वेऽपायान्तरोत्पत्तिप्रतिबन्धस्याप्रामाणिकत्वात् स्पष्टस्पष्टतरस्पष्टतमवासनाजनकत्वेनापायजन्यापायपरम्पराया अवश्याम्युपेयत्वादीहावग्रहादिभेद इवापायनानात्वेऽप्युपयोगभेदानापचेरेकसन्ततिकैकविषयकज्ञानस्यैवोपयोगत्वात् , तस्य च नानात्वेऽप्येकत्वाविरोधात् ततश्चापायसमानाकारस्मृतिजननी स्मृतिज्ञानावरणकर्मक्षयोपशमरूपा वासना विजृम्भते, कालान्तरे च तद्विषयिणी स्मृतिः प्रवर्तते इति,यद्यपीयं भिन्नोपयोगरूपत्वाभावाचाधिकीभवितुमुत्सहते, तथापि क्षयोपशममहिम्नाऽव्यक्ततया स्थित पूर्वज्ञानमेबोद्बोधकवशात् स्मृत्युपयोगरूपतामास्कन्दत्कथञ्चिदभेदोपविद्धं सन्तानगामित्वलक्षणं भेदमास्कन्दतीति द्रष्टव्यं, ननु स्मृतिने प्रमाऽतीतश्यामत्वे वर्तमानावगाहिन्याः पाकरक्ते श्यामोध्यमिति प्रतीतेरिवातीततत्तांशे वर्तमानत्वावगाहिन्यास्तस्या अयथार्थत्वात्तत्ताविशिष्टस्यानागतवर्तमानस्य वर्तमानत्वानुभवचलादननुभूतस्य वा तत्र वर्तमानत्वस्य ज्ञानसामग्रीमहिम्नैव भानात्, अन्यथा विषयस्य वर्त्तमानत्वाझाने तत्र प्रवृश्यनुपपत्तिप्रसङ्गादत एव यदा धूमस्तदा वहिरिति व्याप्त्यप्रतिसन्धानेऽपि ज्ञानसामग्रीमहिम्नेव वन्यनुमिती बर्वर्तमानत्वज्ञानात्तत्र निःशवं प्रवृत्तिरिति चेत्, न,पाकरक्ते श्यामोऽयमिति प्रतीतेरयथार्थत्वासिद्धेरिदानीमयं श्याम इत्याकाराभावेन तत्र श्यामतांशे वर्तमानस्वानवगाहनात, अथ प्रकारतया तत्र विद्यमानत्वाभावेऽपि विशेष्यावच्छेदककालावच्छिन्नविशेषणसम्बन्धस्य संसर्गत्वात्संसर्गतया तानात्सा प्रतीतिरयथार्थेति चेत, तथापि पूर्व श्याम इत्यत्रातीतश्यामतायामिव स घट इत्यत्राऽप्यतीतधर्मवैशिष्ट्यरूपायां तचायां विद्यमानत्वप्रतिसन्धानायोगेन स्मृतियाथार्थ्यस्य बाधितुमशक्यत्वात्कादाचित्कसम्बन्धपुरस्कारेणातीतधर्मज्ञानस्याप्यप्रामाण्ये च कादाचित्कसम्बन्धेन सत्प्रतिपक्षितत्वज्ञाने हेतुरपि हेत्वाभासतां भजेव, अपि । प्रकरणम् ॥ ॥६ ॥ तृतीय स्तरक मतिज्ञाननिरूपणे धारणास्वरूपचतुर्थभेदावान्तर भेदतत्त्वनिरूपणम्॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy