________________
Shri Mahavir Jain Aradhana Kendra
सविवरण भीज्ञाना
र्णव
प्रकरणम् ॥
।।। ५९ ।।
www.krtutirth.org
सामान्यविशेषव्यवहारो लोकरूढोऽपि व्यावहारिकार्थाऽवग्रहे युज्यते, लोके विशेषोऽप्यपेक्षया सामान्यं, यत्सामान्यं तदप्यपेक्षया विशेषः इत्येवमन्त्यविशेषं यावत्, एतच्चौपचारिकावग्रहे सत्येव घटते, नान्यथा, 'यदनन्तरमीहादि प्रवृत्तिः सोऽवग्रह' इत्येवमवग्रहलक्षणस्य नैविग्रह इव विशेषग्राहिज्ञानेऽपायरूपे औपचारिकार्थावग्रहतया स्वीक्रियमाणेऽपि भावात् ॥ २८८ ॥ ॥ इति सविवरणे श्रीज्ञानार्णवे मतिज्ञानाऽऽद्यमेदलक्षणद्विविधावग्रहतत्त्वप्ररूपणात्मको द्वितीयस्तरङ्गः सम्पूर्णः॥ अथ तृतीयस्तरङ्गः ॥ अथ मतिज्ञानद्वितीय भेदलक्षणामीहां व्याचिख्यासुराह—
इय सामण्णग्गहणा-णंतरमीहा सदत्थवीमंसा ।। किमिदं सद्दोऽसद्दो, को होज्ज व संख-संगाणं १ ॥ २८९ ॥ इत्येवं प्रागुक्तेन प्रकारेणाभिहिताऽव्यक्तवस्तुमात्रग्रहणलक्षणनैश्चयि कार्थावग्रहशब्दादिसामान्यग्रहणलक्षणव्यावहारिकार्थावग्रहात्मकसामान्यग्रहणानन्तरमीहा प्रवर्तते सा सदर्थमीमांसा, सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा, किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वेत्येवंस्वरूपा, इयं विचारणा निश्चयार्थावग्रहानन्तरभाविनी, वा अथवा शाङ्खशार्ङ्गयेोर्मध्ये कोऽयं भवेत् शब्दः शाङ्खः शाङ्खों वा, इयं विचारणा व्यवहारार्थावग्रहानन्तरभाविनी, यद्यपीत्थं विचारणा संशयात्मिका नेहा, तथाप्यनयाऽनन्तरभावी व्यतिरेकधर्मनिराकरणपरः अन्वयधर्मघटनप्रवृत्तश्चापायाभिमुख एव बोध उपलक्षित ईहा || तद्यथा-" अरण्यमेतत् सवितास्तमागतो, न चाधुना सम्भवतीह मानवः । प्रायस्तदेतेन खगादिभाजा, भाव्यं स्मरारातिसमाननाम्ना ॥ १ ॥ " इति ॥ एतेन स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषधर्मव्यतिरेकतः स्थाणुधर्मसमन्वयतश्च प्रायः स्थाणुरेवायमिति बोध ईहेत्युपदर्शितम्भवतीति ।। २८९ ॥ अथ मतिज्ञानतृतीय भेदस्यापायस्य स्वरूपमाह
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
( योजित:
पाठ: )
द्वितीय
तरङ्गो पसं
हारः । तृतीय तरङ्गोपक्रमः मतिज्ञान निरूपणे द्वि तीयभेद -
रूप-ईहा
तव निरू
पणम् ॥ ॥ ५९ ॥