________________
Shri Mahavir Jain Aradhana Kendra
www.krtuatirth.org
तरतमजोगाभावे-वाओ चिय धारणा तदंतम्मि ॥ सव्वत्थ वासणा पुण, भणिया कालंतरे सई य|| २८६ ॥ तरतमयोगाभावे ज्ञातुरग्रेतनविशेषाकाङ्क्षानिवृत्तावपाय एव भवति, तस्यावग्रहत्त्वाभावात्तनिमित्तानामहादीनामभावे तदन्ते धारणा तदर्थोपयोगाप्रच्युतिरूपा भवति, वासना वक्ष्यमाणरूपा कालान्तरे स्मृतिचेति धारणाभेदद्वयं पुनः सर्वत्र भवति ॥ २८६ ॥ सांव्यवहारिकार्थावग्रहापेक्षयेदानीं " तेणं सद्दे ति उग्गहिए ' इत्यादिसूत्रं विशेषविज्ञानपरतयाप्युपपादयितुं शक्यत इत्याहसो ति व सुभणियं विगप्पओ जइ विसेसविण्णाणं ॥ घेप्पेज्ज तं पि जुज्जइ, संववहारोग्गहे सव्वं ॥ २८७॥ वा अथवा, शब्द इति सूत्रभणितं शब्दस्तेनावगृहीत इति सूत्रे प्रतिपादितं यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्येत, संव्यवहारोपग्रहे गृह्यमाणे सति सर्वं तदपि युज्यते ॥ २८७ ॥ व्यावहारिकार्थावग्रहाभ्युपगमे सविशेषं गुणनुपदर्शयन्नाहत्रिप्पेयराइभेओ, पुव्वोइयदोसजालपरिहारो ॥ जुज्जह संताणेण य, सामण्णविसेसववहारो ॥ २८८ ॥ क्षिप्रेतरादिभेदं यत्पूर्वोदितदोषजाल मेकसामयिकसामान्यमात्र ग्राहकनैश्वयि कार्थावग्रहव्याख्यातारम्प्रत्येक सामयिकत्वेऽस्य कथं क्षिप्रचिरग्रहणविशेषणं १ सामान्यमात्रग्राहकत्वे च कथं बहुबहुविधादिविशेषणोक्तं विशेषग्रहणं, तथाऽस्यैव विशेषग्राहकत्वे समयोपयोगबाहुल्यमित्यादिस्वरूपम्, तस्य परिहारो व्यावहारिकार्थावग्रहे सति युज्यते, नैश्चयिकार्थावग्रहवादिभिरपि उपचाराव्याबहारिकार्थावग्रहस्यासंख्येयसमयनिष्पन्नविशेषग्राहकज्ञानरूपस्य स्वीकृतत्वेन तत्र क्षिप्रेतरादिभेदस्य बहु-बहुविधादिविशेषणोक्तविशेषग्राहकत्वस्य सम्भवात्, तस्य चाऽसंख्येयसामयिकत्वेनैकसमयोपयोगबाहुल्यस्यावकाश एव नास्ति, एवं च क्षिप्रेतरादिविशेषणकलापो मुख्यतया सांव्यवहारिकार्थावग्रह एव घटते कारणे कार्यधर्मोपचारतस्तु नैश्वयिकार्थावग्रहेऽपीत्युक्तं प्राग्, सन्तानेन च
For Print And Personal Use Only
Acharya Shal Kalassagarsun Gyanmandir
॥ द्वितीया तरङ्गः ॥ (योजित: पा
ठः) मतिनि
रूपणे अर्था वग्रहस्यनैश्वयिकव्याव हारिकभेदौ
व्युत्पाद्याs
वग्रहतत्व
निष्टङ्कनम् ॥