________________
Shri Mahavir Jain Aradhana Kendra
www.ketafirth.org
अवग्रहोऽर्थावग्रहो भण्यते ग्रहणेहापायलक्षणत्वेऽपि क्षेपार्थककिंशब्दसमभिव्याहारात्कथं ग्रहणेहापायलक्षणत्वे सत्यपि बहुबहुविधादिविशेषग्राहकत्वेन निश्चयरूपतयाऽपायः समर्थावग्रह इति भण्यते १, ग्रहणेहयोः पूर्व भावित्वेन अपायस्य स्वस्वभावत्वेनापायलक्षणत्वं बोध्यम्, स्वस्वरूपस्यापि च लक्षणत्वं भवत्येव । यदाह ॥ “विषामृते स्वरूपेण, लक्ष्येते कलशादिवत् । एवं व स्वस्वभावाभ्यां व्यज्येते खलसज्जनौ ||१||" इति।। बहुबहुविधादिग्रहणस्योक्तलक्षणत्वबलादपायत्वे कथं शास्त्रान्तरेऽवग्रहादीनां बह्वादिग्रहणमुक्तम् १, सत्यमुक्तम्, किन्तूपचारतः बह्वादिग्राहकस्यापायस्य कारणेष्ववग्रहादिषु योग्यतया कार्यस्वरूपमस्तीति कृत्वोपचारतस्तेऽपि बह्वादिग्राहकाः प्रोच्यन्ते, अथ यदि उक्तन्यायेन त्वयाऽप्युपचारं कृत्वा विशेषग्राहकोऽर्थावग्रह इत्युच्यते स वाङ्मात्रेण तव न युज्यते, “ यत्र मुख्यार्थो न घटते तत्र प्रयोजने सति उपचारः प्रवर्तते, " त्वया त्ववग्रहस्य विशेषविषयकत्वोपपादनाय यद्यदुक्तं तदन्यथैव समर्थितमिति प्रयोजनाभावान्नोपचारो युक्तः, यदि मां शिष्यो भूत्वा पृच्छसि त्वं ‘कथमुपचारः क्रियमाणो घटत इति ?' ततः शृणु समाकर्णय, सोऽपि यथा युज्यते तथा कथयामि ।। २८१ ॥ यथाप्रतिज्ञातमेव सम्पादयन्नाह
सामण्णमेत्तगहणं, नेच्छइओ समय मोग्गहो पढमो ॥ तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ||२८२॥ सो पुणावाया - वेक्खाओ वग्गहोत्ति उवयरिओ || एस्सविसेसावेक्खं, सामण्णं गेण्हए जेणं ॥ २८३ ॥ तत्तोऽणतरमीहा, तत्तोऽवाओ य तव्विसेसस्स ।। इय सामण्णविसेसा - वेक्खा जावंतिमो भेओ ।। २८४ ॥ इहैकसमयमात्र मानो नैश्वयिको निरुपचरितः सामान्यवस्तुमात्र ग्राहकोऽथविग्रहः प्रथमः, निश्चयवेदिपरमयोग्यवगम
For Private And Personal Use Only
ABstEx
Acharya Se Kalasagarsun Gyanmandir
॥ द्वितीयः
तरङ्गः ॥ ( योजित: पाठ: ) मतिनिरूपणे अर्थावग्र
हे प्रेरकविशेषारेकां निरस्य व
हादिया
हित्वोपचा
रोपपादनम् ||