________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरण भीवाना
SEARCH
जैव
प्रकरणम्॥ ॥५७॥
संख्यप्रेरकान्तर्गतप्रेरकाविशेषस्यावशिष्टामाशङ्कामपहस्तयितुं सरिरुपन्यस्यति-- खिप्पेयराइभेओ, जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ, सहोत्ति सुयम्मि जं केइ ॥२८॥
क्षिप्रेतरादिभेदो यस्मादवग्रहः, ततः शब्द इति विशेषविज्ञानं युज्यते, अर्थावग्रहे इति प्रस्तावाल्लभ्यते, तेणं सद्दे त्ति उग्गहिए' इत्यादिवचनात् यत्सूत्रे निर्दिष्टमिति शेषः, विशेषविज्ञानत्वे हेतुः विकल्पवशतः इहान्यत्रोक्तनानात्ववशतः, अवग्रहस्य द्वादशमेदोपदर्शनार्थमिह शास्त्रान्तरे तत्त्वार्थादौ चैवमुक्ति:-क्षिप्रमवगृह्णाति १, चिरेणावगृह्णाति २, बह्ववगृह्णाति ३, अबढ़वगृह्णाति ४, बहुविधमवगृह्णाति ५, अबहुविधमवगृह्णाति ६, एवमनिश्रितं ७, निश्रितं ८, असन्दिग्धं ९, सन्दिग्धं १०, ध्रुवम् ११, अध्रुवमवगृह्णाति १२ इति ॥ ततः क्षिप्रं चिरेण वाऽवगृहातीति विशेषणान्यथानुपपया ज्ञायते नैकसमयमात्रमान एवार्थावग्रहः, किन्तु चिरकालिकोऽपि, तथा बहूनां श्रोतृणामविशेषेण प्राप्तिविषयस्थे शङ्खमेर्यादिबहुतूर्यनिघोंषे क्षयोपशमवैचित्र्यात् कोऽप्यवहु सामान्यमवगृह्णाति,अन्यो बह्ववगृह्णाति भिन्नांस्तांस्तान् शब्दान्गृह्णाति,अपरः स्त्रीपुरुषवाद्यत्वादिबहुविधविशेषधर्मविशिष्टत्वेन बहुविधमवगृह्णाति, तदन्यस्त्वबहुविधविशिष्टत्वादबहुविधमवगृह्णाति, अत एतस्माद् बहुबहुविधाघनेकविकल्प नानात्ववशादवग्रहस्य क्वचित्सामान्यग्रहणं क्वचितु विशेषग्रहणमित्युभयमप्यविरुद्धं, ततो यत् सूत्रे 'तेणं सद्दे चि उग्गहिए' इतिवचनात् शब्दः इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ॥ २८० ।। अत्रोत्तरमाह-- स किमोग्गहो ति भण्णइ, गहणेहाऽवायलक्खणत्ते वि ।। अह उवयारो कीरइ, तो सुण जह जुज्जए सोवि॥२८॥
बहुशः समाहितमप्यर्थ पुनः पुनः प्रेरयन्तं प्रेरकं साक्षेपं काक्वा सरिः पृच्छति, किंशब्दः क्षेपे, स पूर्वोक्तो विशेषावगमः,
|| द्वितीय:
तरङ्गः॥ (योजितः
पाठः) अर्थावग्रहे क्षिप्राक्षि पादिभेदा
सम्भवतो विशेषग्राहित्वमेव यु
क्तमितिप्रे| रकविशेषा|रेकाया: स. माधानम् ॥ ॥ ५७॥
!
For Private And Penal Use Only