________________
Shri Mahavir Jain Aradhana Kendra
www.ketatirth.org
इति केषाञ्चिन्मतं निराकर्तुमुपन्यस्यति - केहदिहालोयणपु-व्वमोग्गहं बेंति तत्थ सामण्णं ॥ गहियमहत्थावग्गह-काले सहेत्ति निच्छिण्णं ॥ २७३ ॥ केचिद्वादिन इहास्मिन् प्रक्रमे आलोचनपूर्वमालोचनं पूर्व यत्र स तथा तं आलोचनपूर्वकमित्यर्थः । तथाभूतमवग्रहं ब्रुवते प्रथममालोचनाज्ञानं ततोऽर्थावग्रह इत्येवं व्याचक्षते, तथा च तैरुक्तम्- "अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् ॥ बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम् ॥ १ ॥” इति तत्र आलोचनाज्ञाने सामान्यमव्यक्तं वस्तु गृहीतं, प्रतिपत्रेति गम्यते, अथानन्तरम्, अर्थावग्रहकाले निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तं शब्दविशेषणविशिष्टं तदेव, गृहीतमित्यनुवर्तते, एवमुपगमे "से जहानामए केइ पुरिसे अब्बतं सर्वं सुणेजा" इत्येतदालोचनाज्ञानापेक्षया नीयते 'तेणं सद्दे त्ति उग्गहिए' एतचर्थावग्रहापेक्षयेति सर्वं सुस्थम् || २७३ || तदेवं वादिनमीषद्भर्वाध्यातमज्ञं विज्ञाय परं मार्गावतारणाय विकल्पयन्नाह सूरिः
तं वंजणोग्गहाओ, पुव्वं पच्छा स एव वा होज्जा | पुव्वं तदत्थवंजण-संबन्धाभावओ णत्थि || २७४ || तद्भवदुत्प्रेक्षितमालोचनं व्यञ्जनावग्रहात्पूर्वं पश्चात्स एव वा भवेत्, स्थानान्तराभावात्, अर्थव्यञ्जनसम्बन्धाभावात्पूर्वं तावचनास्ति, अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं श्रोत्रादीन्द्रियं तयोस्सम्बन्धस्य सामान्य विषयग्राह्यालोचनस्य सर्वत्र सर्वदोत्पत्तिप्रसङ्गपरिहाराय तत्कारणतयाऽवश्यमभ्युपेयत्वेन तदभावे तदसम्भवात्, यद्युक्तालोचनोत्पत्तयेऽर्थव्यञ्जनसम्बन्धाभाव उपेयते तदा तत्स्वरूपस्य व्यञ्जनावग्रहस्यैवोक्त्तालोचनात्पूर्वं सत्त्वं न त्वालोचनस्य व्यञ्जनावग्रहात्पूर्वं सच्चमिति प्रथमविकल्पो नात्मानमासादयेदित्याशयः ॥ २७४ ॥ व्यञ्जनावग्रहात्पश्चादुक्तालोचनं भवतीति द्वितीयविकल्पमधिकृत्याह
For Private And Personal Use Only
Acharya Sai Kalassagarsu Gyanmandir
॥ द्वितीयः
तरङ्गः ॥
( योजित: पाठ: ) मति निरूपणे अर्थावग्रह
विषयनिरू
पणे पुनरन्यकृतयुक्त्या
ऽऽलोचना
पूर्वकत्वं
तस्येतिमतं
विकल्प्य परास्तम् ॥