________________
SMA
Kenda
Acharya StarKalassingaisait.Gyanmantire
В
सविवरणं भीज्ञाना
ОЕ
प्रकरणम्।।
सामयिकोऽसौ न स्यात्, अथवा “ सामण्ण-तयण्णविसेसेहा ॥२६७॥” इत्यादिपूर्वग्रन्थोक्तं समयोपयोगबाहुल्यं स्यात्, अथवा परिचितविषयस्य विशेषविज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव सर्वविशेषग्रहणमनन्तरोक्तं प्रसज्येत, अथवा सर्वाऽपि मतिरवग्रहो ग्राह्यः प्राप्तः स्यात्, विशेषविषयकत्वेन वा सर्वाऽपि मतिरपाय एव स्यात् , एवं सत्यपायस्यैक
सामयिकत्वप्राप्तौ "ईहावाया मुहुत्तमन्तं तु" इति विरुध्यते । अथवा तथाऽभ्युपगमेऽनवगृहीतेऽनीहितेऽपायः प्राप्तः। एवश्वावगृहीते DIईहिते चाऽपाय इत्युपपादकस्य सिद्धान्तस्य विरोधः, अथवा पाटववेचियेणावग्रहहाऽपायधारणानां ध्रुवमुत्क्रमव्यतिक्रमो स्याताम,
'पश्चानुपूर्वीभवनमुत्क्रमः,' 'अनानुपूर्वीभावस्तु व्यतिक्रमः,' एवमुपगमे "उग्गहो ईहा अवायो य, धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टस्य तेषां क्रमस्य विरोधः स्यात्, तथा यत्प्रथमसमये गृह्यते स विशेष इतिनियमाऽभ्युपगमे सामान्य विशेषस्स्यात् प्रथमसमये सामान्यस्यैव ग्रहणात् , अथवा प्रथमसमये सामान्यमेव गृह्यत इति वस्तुस्थितिमाश्रित्य भवन्मते प्रथमसमये गृह्यमाणो विशेषः सामान्यं स्यात्, अथवा सामान्यं विशेषश्चेत्युभयं, उभयं वा स्यात्, सामान्य सामान्यविशेषोभयरूपं, विशेषश्च सामान्यविशेषोभयरूपः स्यात्, तथाहि, 'अव ईषत् सामान्यं गृह्णातीत्यवग्रह' इतिव्युत्पत्या वस्तुस्थितिसमायातं यत्सामान्यं तत्स्वरूपेण तावत्सामान्यं भवदभ्युपगमेन तु विशेष इत्येकस्यापि सामान्यस्योभयरूपता, तथा योऽपि भवदभ्युपगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम्, इति विशेषस्याप्येकस्योभयरूपता, अर्थावग्रहस्य सामान्यमालम्बनं मुक्त्वा न च युक्तं सर्वमिदम्, अघटमानकत्वात्, पूर्वोक्तस्यापि दृषणस्यात्र प्रसङ्गायातत्वेन न पौनरुक्त्यावहत्वमिति ।। २७०.२७१-२७२ ॥ प्रथम सामान्यमात्रग्राहि आलोचनाज्ञानं तदनन्तरं रूपादिविशेषव्यावृत्तशब्दत्वग्राही अर्थावग्रह
है। द्वितीयः
तरङ्गः॥ (योजितः
पाठः) मतिनिरूपणे
अर्थावग्रह| विषयक पर
कृतारेकापरिहारादिप्ररूपणम् ॥
-
4+4
+34
॥ ५५॥
For Private And Penal Use Only