SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ www.katuatinth.org अण्णे सामण्णग्गह-णमाहु बालस्स जायमेत्तस्स ॥ समयम्मि चेव परिचय-विसयस्स विसेसविन्नाणं ॥२६॥ अन्ये वादिन एवमाहुः-जातमात्रस्य तत्क्षणजातमात्रस्य बालस्य सङ्केतादिविकलत्वेनापरिचितविषयस्य सामान्यमात्रस्याशेषविशेषविमुखस्याव्यक्तस्य सामान्यस्य ग्रहणमालोचनम्, परिचितविषयस्य तु, समय एवाद्यशब्दश्रवणसमय एव, विशेषविज्ञान जायते, ततस्तमाश्रित्य "तेणं सद्दे ति उग्गहिये" इत्यादि यथाश्रुतमेव व्याख्यायते न कश्चिद्दोष इत्याशयः।।२६८॥अत्रोचरमाहतदवत्यमेव तं पुव्व-दोसओ तम्मि चेव वा समये । संखमहुराइसुबहुय-विससगहणं पसज्जेजा ॥२६९॥ 'जेणत्थोग्गहकाले 'इत्यादि 'सामण्णतयण्णविसेसेहा' इत्यादिग्रन्थोक्तपूर्वदोषतस्तदेतत्परोक्तं, तदवस्थमेव दूषितावस्थमेव, नान्यदूषणाभिधानप्रयासोऽत्राभिधेय इत्याशयः, वा अथवा, तस्मिन्नेव समये शब्दोऽयमित्येकोपयोगसमय एव शङ्खमधुरादिसुबहुविशेषग्रहण प्रसज्येत, 'न पुण जाणइ के वेस सद्दे' इतिसूत्रावयवस्य सर्वप्रमातन्प्रत्यविशेषेण प्रवृत्तस्य विरोधेन कस्यचित्प्रथमसमये एव सर्वविशेषविषयकं ग्रहणम्भवत्येवेत्यभ्युपगन्तुमशक्यमेव,शब्दरूपधर्मिग्रहणमन्तरेण प्रकृष्टमतेरप्युत्तरोत्तरबहुधर्मग्रहणत्वा- सम्भवादिति ॥ २६९ ।। एकसमये शब्दोऽयमितिविज्ञानमम्युपगच्छन्तम्प्रति समयविरोधादिदोषान्तरमुपढौकयतिअत्योग्गहो न समय,अहवा समओवओगवाहुल्लं ।। सव्वविसेसग्गहणं, सव्वा विमइरवग्गहो गिज्झो ॥२७॥ एगो वाऽवाओ चिय, अहया सोऽगहियणीहिए पत्तो । उक्कम-वहक्कमा वा पत्ता धुवमोग्गहाईणं ॥२७१।। सामण्णं च विसेसो, सो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमियं, सामण्णालवणं मोत्तुं ॥२७२।। विशेषविज्ञानस्यासङ्ख्येयसामयिकत्वेनार्थावग्रहे विशेषविज्ञानाभ्युपगमे “ उग्गहो एक्कं समयं" इति सिद्धान्तनिर्दिष्टः ॥ द्वितीय: तरङ्गः ॥ (योजितः पाठः) मतिनिरूपणे अर्थावग्रहविषयक पर कृतारेका परिहारादिमरूपणम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy