________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरणं श्रीज्ञाना
प्रकरणम्॥
॥५४॥
AISEARCORROR
बपि व्यञ्जनावग्रहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम व्यञ्जनावग्रहो न स्यादित्यर्थः, एवञ्च व्यञ्जनावग्रहकथैवोच्छिद्येत, व्यञ्जनमात्रसम्बन्धस्यैव तत्रोक्तत्वात् , भवता तु तत्राव्यक्तशब्दरूपार्थग्रहणस्याभिधीयमानत्वात् , अव्यक्तशब्दग्रहणेत्वसावर्थावग्रह एव, एवमपि सूत्रोक्तत्वाद् व्यञ्जनावग्रहत्त्वे द्वयोरपि व्यञ्जनार्थावग्रहयोरविशेषः स्यात्, मेचक
| मणिप्रभावात्सकरो वा स्यादिति ।। २६५ ॥ एतावता व्यञ्जनावग्रहे व्यञ्जनसम्बन्धमात्रम्, अर्थावग्रहे त्वब्यक्तशब्दाद्यर्थस्यैव ग्रहणं न तु व्यक्तशब्दायर्थग्रहणमिति प्रतिपादितम् , इदानीमर्थावग्रहे युक्त्यन्तरेण व्यक्तशब्दाद्यर्थसंवेदनं निराकरोति
जेणत्थोग्गहकाले. गहणेहावायसंभवो नत्थि ॥ तो नत्थि सद्दबुद्धी, अहत्यि नावग्गहो नाम ॥२६६ ॥
व्याख्या-येनार्थावग्रहकाले क्रमोत्पित्सुस्वभावानामर्थग्रहणेहापायानां मतिज्ञानभेदानां सम्भवो नास्ति, ततोऽर्थावग्रहे नास्ति शब्द इति विशेषबुद्धिः, तस्या अपायरूपाया अर्थग्रहणेहापूर्वकत्वात् , अथास्त्यसौ तत्र, तर्हि नायमर्थावग्रहः किन्त्वपाय एव स्यात्, तथाप्युपगमे त्वर्थावग्रहेहयोरभाव एव स्यात् ।। २६६ ।। अर्थावग्रहे शब्द इति विशेषबुद्धधुपगमे दोषान्तरमाहसामण्णतयण्णविसे-सेहा-वजण-परिग्गहणओ से ।। अत्थोग्गहेगसमओ-वओगबाहुल्लमावणं ॥ २६७ ॥
व्याख्या-अर्थावग्रहैकसमये भवतोपगम्यमाना निश्चयरूपा शब्द इति विशेषबुद्धिरकस्मादनुपजायमानाऽव्यक्तशब्दसामान्यग्रहणशब्दसामान्यविशेषशब्दान्यरूपादिविशेषधर्मालोचनलक्षणेहारूपादिविशेषधर्मपरिवर्जनशब्दविशेषधर्मपरिग्रहणतः श्रोतुरुपजायत इत्यर्थावग्रहैकसमये उपयोगबाडुल्यमापन्नम्, न चैतद्युक्तम्, उपयोगयोगपद्याभावप्रतिपादकागमविरोधादिति नार्थावग्रहकाले शब्द इति विशेषबुद्धिः किन्तु शब्द इति प्रज्ञापको भणतीति सिद्धम् ॥२६७।। अथास्मिन्नेवार्थावग्रहे परवाद्यभिप्रायं निराचिकीर्षुराह
(योजितः ४॥ पाठः)
मतिनिरूपणे | अर्थावग्रह| विषयनिरू पणे परस्ता
रेका परिहारादिपरू पप्पम् ॥
CBIRBAR
॥५४॥
For Private And Penal Use Only