________________
www.katuatinharo
Actiarva stul Kadassiansun Cranmandir
सविवरण श्रीज्ञाना-3
प्रकरणम् ॥ ॥५३॥
ACCIRECRUGARCREDIO
जह सदोत्ति न गहियं, न उजाणइ जंक एस सहोत्ति ॥ तमजुत्तं सामण्णे, गहिए मग्गिजइ विसेसो ॥२६॥
व्याख्या-यदि प्रथममेर शब्दोऽयमित्येवं तद्वस्तु न गृहीत, तर्हि 'न उण जाणइ के वेस सदोत्ति इति यत् नन्दिसूत्रे निर्दिष्टं तदयुक्तं, यतः शब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चान्मृग्यतेऽन्विष्यते विशेषः, 'किमयं शब्दः शाङ्खः उत शाङ्ग' इति, 'न उण' इत्यादिना सूत्रे विशेषस्यैवापरिज्ञानमुक्तं, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, सामान्याग्रहणे विशेषमार्गणासम्भवात्, विशेषजिज्ञासायां सामान्यज्ञानस्य कारणत्वात् ।। २६० ॥ अत्रोत्तरमाहसव्वत्थ देसयंतो, सद्दो सहोत्ति भासओ भणइ॥ इहरा न समयमेत्ते, सहोत्ति विसेसणं जुत्तम् ।। २६१ ॥
व्याख्या-सर्वत्र पूर्वस्मिन् अत्र च सूत्रावयवे, अवग्रहस्वरूपं प्ररूपयन् भाषकः प्रज्ञापक एव शब्दः शब्द इति वदति, न त्ववग्रहे शब्दप्रतिभासोऽस्ति, अन्यथा समयमात्रेऽवग्रहकाले शब्द इति विशेषणं न युक्तम्, शब्दनिश्चयस्यान्तर्मुहर्तिकत्वात, सांव्यवहारिकार्थावग्रहमाश्रित्य वा सूत्रमिदं व्याख्यास्यते ।। २६१ ।। सूत्रावलम्बिनम्प्रति सौत्रमेव परिहारमाह
अहव सुए चिय भणियं, जह कोइ सुणेज सहमवत्तं ॥ अव्वत्तमणिदेसं, सामण्णं कप्पणारहियं ॥२२॥
व्याख्या-अथवा सूत्र एव भणितं प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम्, तत्प्रतिपादकसूत्रावयवमुल्लिखति-'जह कोई सुणेज सदमव्वचं 'ति अस्य नन्द्यध्ययन इत्थमुपन्यासः “से जहा नामए केइ पुरिसे अवर्च सई सुणेज्जत्ति" तत्राव्यक्तमित्यनिर्देश्य, तदपि सामान्य, तच्च नामजात्यादिकल्पनारहितम्, शाखशाङ्गभेदापेक्षया शब्दोल्लखस्याष्यव्यक्तत्वमिति नाशङ्कनीयं, सूत्रेऽवग्रहस्यानाकारोपयोगरूपतयैव भणनात्, अनाकारोपयोगो हि सामान्यमात्रविषयक एव,
(बोजितः
पाठः) मतिनिरूपणे
अर्धावग्रहविषयनिरूपणे परकृतारेकापरिहारादिप्ररूपणम् ॥
For
And Pascale Only