SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya StarKalassingaisait.Gyanmantire किं तं पुब्वं गहिय, जमीहओ सह एव विपणाणं ।। अह पुवं सामण्णं, जमीहमाणस्स सहोत्ति ॥२५८ ॥ (योजितः ____ व्याख्या-शब्द एवायमिति निश्चयस्येहापूर्वकत्वे त्वयाऽभ्युपगते तत्र वक्तव्यं किमीहायाः पूर्व तद्वस्तु प्रमात्रा गृहीत ____पाठः) यस्मिन्नीहिते शब्द एवायमिति निश्चयप्रवृत्तिः ज्ञात एव वस्तुनि भवतीहा नाज्ञात इत्याशयः, उत्तरदानेऽसमर्थे परे स्वयमेवो- हमतिनिरूपणे प्रेक्ष्य तन्मतमाशङ्कते, अथ-ब्रूयात्परः सामान्यं नामजात्यादिकल्पनारहितं वस्तुमात्रमीहायाः पूर्व गृहीतं, यदीहमानस्य शब्द अर्थावग्रहइति निश्चयज्ञानमुत्पद्यत इत्यर्थः ॥ २५८ ॥ अत्र सूरिः स्वसमीहितसिद्धिमुपदर्शयन्नाह विषयनिरूअत्थोग्गहओ पुब्वं, होयव्वं तस्स गहणकालेणं ।। पुव्वं च तस्स वंजण-कालो सो अस्थपरिसुण्णो ॥२५९॥ पणे परकता व्याख्या-ईहायाः पूर्व यत्सामान्यग्रहणन्तदस्मन्मतेविग्रह एकसामायिकः तस्य कालो य एकसमयस्तेनैव ग्रहणकालेन रेकापरिहाभवताऽपि सामान्यग्रहणकालस्य व्यवहृतावस्मन्मतसिद्धार्थावग्रह एव भवतोऽप्यभिमत इति न शब्दोऽयमिति ज्ञानस्यार्थावग्रह- रादिप्ररूत्वं स्यादतस्तदनुरोधेनास्मदभिमतार्थावग्रहात्पूर्वमेव भवदभिमतेन ईहायाः पूर्व गृह्यमाणस्य सामान्यस्य ग्रहणकालेन भवितव्यं, पणम् ॥ अस्मदभिमतार्थावग्रहस्य पूर्व व्यञ्जनकालः व्यञ्जनानां शब्दादिद्रव्याणामिन्द्रियमात्रेणादानकाला, सोऽर्थेपरिशून्यः न हि तत्र || सामान्यरूपो विशेषरूपो वाऽर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, अत ईहायाः पूर्व यत्सामान्यग्रहणमथावग्रहत्वेनास्माभिरुपेयते तत्तथैव भवताऽप्युपेयमिति, तस्यार्थावग्रहत्वे सिद्धं शब्द एवायमिति निर्णयस्यान्वयव्यतिरेकधर्मपर्यालोचनरूपेहोत्तरकालभाविनोऽपायत्वमिति ॥ २५९॥ “न उण जाणइ के वेस सद्दोचि" इति नन्दिसूत्रानुरोधाच्छन्दोऽयमिति ज्ञानं प्रथमतोऽभ्युपगमनीयमेव अन्यथा तथा सूत्रनिर्दिष्टस्यायुक्तत्वं स्यादित्याशयेन पर आह For And Pascal Lenty
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy