________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णवप्रकरणम् ॥ ॥ ५२ ॥
www.ketatirth.org
स्यापि तदुत्तरोत्तरज्ञानापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्वप्राप्तौ विशेषाणामनन्तत्वेन यदपेक्षयोत्तरविशेषो न भवत्येवेत्यस्यासम्भवेनोत्तरोत्तर विशेषनिर्णयेऽपि तदुत्तरोतरविशेषाकाङ्क्षायास्सद्भावतोऽन्तिमविशेषावगमोऽयमेवेति निर्णयस्य कर्तुमशक्यत्वेन शाङ्खोऽयमित्यादिज्ञानानामपि स्वोत्तरविशेषग्राहिज्ञानापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्वेऽपायाभावप्रसङ्गस्सुस्पष्ट एवेत्याहइय सुबहुणावि काले-ण सध्व भेयावहारणमसज्यं ॥ जम्मि हवेज्ज अवाओ, सव्वो चिय उग्गहो नाम ॥ २५६ ॥ व्याख्या - इति शब्द उपदर्शनार्थः, यथा शाङ्खोऽयं शब्द इति बुद्धौ शब्दगतविशेषावधारणमिदानीमसाध्यं मन्द्रत्वाधुतरोत्तरबहु विशेषसद्भावात् तेन स्तोक विशेषग्राहित्वेनेयं नापायः किन्त्ववग्रहस्तथा सुबहुनापि कालेन सर्वेणापि पुरुषायुषा शब्दगतमन्द्रत्वाद्युत्तरोतरावशेषावधारणं तद्भेदानामनन्तत्वेनासाध्यं, यस्मिन्विशेषावधारणेऽन्यविशेषाकाङ्गानिवृच्याऽपायत्वम्भवेत्, तस्मात्सर्वेऽपि विशेषावगम उत्तरोत्तरापेक्षया स्तोकत्वाद्भवदभिप्रायेणार्थावग्रह एव स्याच्छन्दोऽयमिति निश्चयवन्नापाय इति ।। २५६ ।। अथ शब्द एवायमितिज्ञानमर्थावग्रहतया परसम्मतमपि तदीहापूर्वकमेव ततो नास्यार्थावग्रहत्वसम्भव इत्याहकिं सहो किमसहो-तणीहिए सद्द एव किह जुतं ॥ अह पुत्र्वमीहिऊणं, सहोत्ति मयं तई पुव्वं ॥ २५७ ॥
व्याख्या- किं शब्दोऽयम्, आहोस्वित अशब्दो रूपादिः, इत्येवं पूर्वमनीहितेऽकस्मादेव शब्द एवेति निश्चयज्ञानं कथं युक्तम्, विमर्शपूर्वकस्य तस्य तमन्तरेण न सम्भवः, अन्यव्यावृत्तिग्रहणे सत्येव विशेषरूपेण निश्चयः, अन्यव्यावृत्तिग्रहणश्च न विमर्श विना विमर्शश्रेति, अथ निश्रयकालात्पूर्वमीहित्वा शब्द एवायमिति निश्चयज्ञानं भवतोऽप्यभिमतं तहिं निश्चयज्ञानात्पूर्वमीहा भवद्वचनतोऽपि सिद्धा ॥ २५७ ॥ ततः किमित्यपेक्षायामाह -
For Private And Personal Use Only
Acharya Shui Kalassagarsu Gyanmandir
( योजित:
पाठः) मतिनिरूपणे अर्थावग्रहविषयनिरू
पणे शङ्कापरिहारादिप्र
दर्शनम् ॥
॥ ५२ ॥