SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.ketatirth.org विषयमवगच्छति चक्षुः, तस्मान्न तस्य तत्परिमाणं युक्तमिति । अत्र प्रतिज्ञाहेत्वोरनुपदर्शनश्वावयवत्रयवादिनो मीमांसकादयोsप्यत्र चक्षुषः प्राप्यकारित्वमभ्युपगच्छन्तो वादितां विभ्रतीत्यभिप्रायेण, यदि नैयायिकोऽत्र वादी भवेत्तदा चक्षुर्न नियतविषयपरिमाणं स्यादिति प्रतिज्ञा, अप्राप्तविषयपरिच्छेदकत्वादिति हेतुश्चोपदर्शनीयौ, अप्राप्तविषयपरिच्छेदकत्वलक्षणहेतुमतोऽपि मनसो नियतविषयपरिमाणत्वेन तदभावलक्षणसाध्यवैकल्यादुक्तानुमाने मनसो दृष्टान्तता न सम्भवतीति सूरिरुत्तरयति- मनसो दृष्टान्तीकृतस्याप्राप्तकारिणो विषयनियमोऽस्त्येव, यतस्तदपि मनः सर्वेष्वर्थेषु न क्रामति न प्रसरतीति || २४६ || एतदेवोपदर्शयतिअत्थगहणेसु मुज्झइ, संतेसु वि केवलाइगम्मेसु । तं किं कयमग्गहणं, अपत्तकारित्तसामन्ने ॥ २४७ ॥ व्याख्या - अर्था एव मतेर्दुष्प्रवेश्यत्वाद् गहनानि अर्थगहनानि तेष्वनन्तेषु, सत्स्वपि विद्यमानेष्वपि केवलज्ञानाव घ्यागमादिगम्येषु कस्यचिन्मन्दमतेर्मनो मुह्यति कुण्ठीभवति, तान्सतोऽप्यर्थान् न गृह्णातीति तात्पर्यम्, तदेतदर्थानां मनसोऽग्रहणं किं कृतम्, अप्राप्तकारित्वसामान्ये तुल्येऽपि, इति परम्प्रति सूरेः पृच्छा, तस्मात्साध्यविकलो दृष्टान्त इति ॥ २४७॥ अप्राप्तत्वाविशेषेऽपि यत एव कारणाद्विषय परिमाणनियमं मनसि परो ब्रूयात्तत एक चक्षुष्यपि विषयपरिमाणनियमस्सुपपाद इत्याशयवान् सूरिराहकम्मोदयओ व सहा- वओ व नणु लोयणे वि तं तुल्लं । तुल्लो व उबालंभो, एसो संपत्तविसए वि ॥२४८|| व्याख्या - यत्केषाञ्चिदर्थानां मनसोऽग्रहणं तत् तदावरणकर्मोदयाद्वा, स्वभावाद्वा, इति परो ब्रूयात्, नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यत्राप्यकारित्वे तुल्येऽपि कर्मोदयात्, तत्स्वाभाव्याद्वा कांश्विदेवार्थान् गृह्णाति न सर्वानिति न परोक्तदूषणम् अथवा "यत्र भयोस्समो दोषः, परिहारोऽपि वा समः। नैकः पर्यनुयोज्यः स्यात, तादृश्यर्थविचारणे || १||" इति वचनात् चक्षु For Private And Personal Use Only Acharya Sai Kalassagarsu Gyanmandir ( योजित: पाठ: ) मतिनिरूपणे व्यञ्जनाव ग्रहप्रस्तावे - चक्षुषोप्राप्यकारित्वे परो कदूषणान्तः पतिमनो दृष्टान्तेऽपि विषयनियमसद्भावेनासङ्गतिनिरूप णम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy