________________
SMA
Kenda
Acharya StarKalassingaisait.Gyanmantire
सविवरणं श्रीज्ञाना
र्णवप्रकरणम्॥ ॥५०॥
CHAUTA
मनसोः प्राप्यकारित्वमभ्युपगच्छतो मते चक्षुषाऽतिसम्प्राप्ताञ्जनादेः किमिति न ग्रहः मनसैकदैव सम्प्राप्तानां घटपटादीनां किमिति न ग्रहो मेर्वादेरतिव्यवहितस्यापि ग्राहकस्य मनसो न कुत्राप्यसम्प्राप्तिरिति दोषोद्धाराय कर्मोदयस्य स्वभावस्य वा प्रतिनियतग्रहणे नियामकत्वं परेण तदुभयप्राप्यकारित्ववादिना वाच्यं तन्नयनस्याप्राप्यकारित्ववादिनाऽपि वक्तुं शक्यमेवेति दोपपरिहारयोस्समत्वेन नात्र वादिना यत्नो विधेय इति भावः ।। २४८ ॥ ततश्च यद्वयवस्थितं तदाहसामत्थाभावाओ,मणोब्व विसयपरओन गिण्हेइ ।।कम्मक्खओवसमओ, साणुग्गहओ य सामत्थम् ॥२४९॥
व्याख्या-चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात्परतो न गृह्णातीति प्रतिज्ञा, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्ता,तदावरणकर्मक्षयोपशमात्स्वानुग्रहतब सामर्थ्य येवप्राप्तेष्वर्थेषु चक्षुषस्समस्ति तेषामप्राप्तानामपि चक्षुषा ग्रहणम, येषु चाप्राप्तेघृक्तसामर्थ्य नास्ति तेषां चक्षुषा न ग्रहणमित्यर्थापत्या लभ्यते, अनुग्रहश्च चक्षुषो रूपालोकमनस्कारादिसामग्रीतो भवति, तस्माद्व्यवस्थितमप्राप्यकारित्वं नयनमनसोः, स्पर्शनादीनां चतुर्णामेवेन्द्रियाणां व्यञ्जनावग्रह इति तस्य चतुर्विधत्वम् ।। २४९ ।।
व्यञ्जनावग्रहस्य स्वरूपं नन्द्यध्ययनागमसूत्रे प्रतिबोधकमल्लकोदाहरणाभ्यां "वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्ठतेण मल्लगदिहतेण य" इत्यारभ्य "जाहे तं वंजणं पूरिय होइ, ताहे हुँ ति करेइ, नो चेव णं जाणाइ के वेस सदाइ" इत्यन्तग्रन्थेन प्रतिपादितं,तदेवमस्य व्यञ्जनावग्रहस्वरूपप्रतिपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकार: 'जाहे तं वंजणं पूरियं होइ" इत्येतद्व्याचिख्यासुराहतोएण मल्लगं पिव, वंजणमापूरियं तिजं भणियं ॥ तं दब्वामिदियं वा, तस्संजोगो व न विरुद्धम् ॥२५०॥
मतिनिरूपणे व्यञ्जनावग्र
हप्रस्तावे मनोविषयनियमत्वे पराभिप्रेतहेत्वोर्ने।पि समत्वेन परदोपपरिहारः, नयनमनसोबिना व्यज्ज
नावग्रहचतु* विधत्वनि
टकनम् ॥ ॥५०॥
S
For Private And Penal Use Only