________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं
श्रीज्ञाना
र्णव
प्रकरणम् ॥ ॥ ४९ ॥
www.khatirth.org
प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः इत्येवं सान्वर्थक्रियावाचकशब्दाभिधेयप्रदीपादेः प्रदी पनादिलक्षणार्थक्रियां कुर्वत एवात्मलाभो नान्यथा, तद्वन्मननादिक्रियां कुर्वत एवात्मलाभः, यथा च प्रदीपस्याप्रदीपनं भाषाया वाशब्दनमयुक्तं तथा मनसोऽप्यमननमयुक्तं, तेन कारणेन असङ्कल्पितशब्द दिविषय भावपरिगतद्रव्यलक्षणव्य अनग्रहणं मनसोऽयुक्तम्, किन्तु सङ्कल्पितानामेवार्थावग्रहद्वारेणावगतानामेव शब्दादिद्रव्याणां ग्रहणं युक्तम्, अतोऽर्थानुपलब्धिकालासम्भवाम मनसो व्यञ्जनावग्रहसम्भव इति ।। २४४ ॥
उक्तरीत्या नयनमनसोरप्राप्यकारित्वे विस्तरेण प्रसाधितेऽपि नयनस्याप्राप्यकारित्वे दूषणम्पश्यन्पर आहजड़ नयणिन्दियमपत्त-कारि सव्वं न गिण्हए कम्हा? || गहणाग्रहणं किं कय-मपत्तविसयत्तसामन्ने ॥ २४५ ॥ व्याख्या- यदि नयनेन्द्रियमप्राप्तकारि तर्हि सर्वमपि त्रिभुवनान्तर्वर्ति वस्तुनिकुरम्बं कस्मान्न गृह्णाति, अप्राप्तत्वस्य सन्निहित इवान्यत्राप्यविशिष्टत्वात्, अप्राप्तविषयत्वसामान्ये सति कस्यचिद्वस्तुनो ग्रहणं कस्यचिद्वस्तुनोऽग्रहणमित्येवं ग्रहणाग्रहणं किं कृतं स्यात् प्राप्यकारित्वे तु येन सह सम्बन्धस्तस्य ग्रहणं येन च तदभावस्तस्याग्रहणमित्युपपद्यत इति ॥ २४५ ॥ तस्मादप्राप्यकारित्वपक्षे चक्षुषो विषयपरिमाणनियमाभाव आपद्यत इत्याह[॥ २४६ ॥ विसयपरिमाणमनियय-मपत्तविसयंति तस्स मणसोव्व ॥ मणसोवि विसयनियमो, न कमइ जओ स सव्वत्थ व्याख्या- तस्य चक्षुषोऽपरिमितं विषयपरिमाणं प्राप्नोति, अस्यां प्रतिज्ञायां हेतुमाह अप्राप्तविषयमिति कृत्वा, मनस इवेति दृष्टान्तः, अत्रानुमानप्रयोग इत्थम्, यदप्राप्तमपि विषयं परिच्छिनति, न तस्य तत्परिमाणं युक्तम्, यथा मनसः, अप्राप्तञ्च
For Private And Personal Use Only
Acharya Shei Kalassagarsun Gyanmandir
मतिनिरू. पणे व्यञ्चना
वग्रहप्रस्तात्रे
चक्षुर्मनसोर
प्राप्यकारि
स्वव्यवस्थापितेपिमनो
दृष्टान्तेनच
क्षुषोपविष
यमानाभावा पत्तिरितिपरोक्त दोषदर्शनम् || ॥ ४९ ॥