SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ VORIGANGANAGAUR 'जं चिंदिओवओगे वि' इत्यादि, यस्मात् श्रोत्रादेः शब्दाद्यर्थग्रहणलक्षणोपयोगकालेऽपि व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति,यथा केवलेन मनसाऽर्थचिन्तनावग्रहादारभ्यैव मनोव्यापारस्तथा श्रोत्रादीन्द्रियेण सहापि तस्य व्यापारो●वग्रहादारभ्यैव न तु व्यजनावग्रहसमय इति न मनसस्तत्रापि व्यञ्जनावग्रहः । तत्र मनसो व्यञ्जनावग्रहे व्यापाराभ्युपगमे स व्यञ्जनावग्रहो मनसोऽपीति मतेरष्टाविंशतिभेदभिन्नता न स्यात्, तस्मात्प्रथमसमयादेव तस्यार्थग्रहणमभ्युपगन्तव्यम् । एवमनभ्युपगमे दण्डमाह'तदण्णहा न प्पवत्तेजत्ति,' यदि प्रथमसमयादेव मनसोर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेच स्यादित्यर्थः, यथा भाषाऽवध्यादीनां भाषमाणावबुद्धधमानलक्षणान्वर्थमुपादायैव प्रवृत्तिस्तथा प्रथमसमयादारभ्य मननलक्षणान्वर्थमुपादायैव मनस्त्वेन मनसः प्रवृत्तिः, अन्यथा न स्यादेव मनोऽवध्यादिवत, तस्मादर्थानुपलब्धिसमयाभावान तस्य व्यञ्जनावग्रहः, श्रोत्रादीन्द्रियच्यापारकाले व्यञ्जनेऽतीत एव मनसो व्यापार इत्यत्राऽऽगमस्यापि संवादः। तदुक्तं कल्पभाष्य-"अत्थाणंतरचारी, चित्तं निययं तिकालविसयंति । अत्थे उ पडुप्पो, विणिओगं इंदियं लहइ ॥१॥" अर्थे-शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चरति प्रवर्तते इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावा, "त्रिकालविषयं चित,साम्प्रतकालविषयं त्विन्द्रियम्" ।। २४२-२४३ ॥ मनसोऽर्थानुपलब्धिकालासम्भवं सयुक्तिकं भावयत्राह नेयाउ चिय जं सो, लहइ सरूवं पईवसहव्व ॥ तेणाजुत्तं तस्सा-संकप्पियव्वंजणग्गहणं ॥२४४॥ व्याख्या-यस्माज्ञयादेव चिन्तनीयवस्तुन एव मनः स्वरूपं लभते नान्यतः, तस्माद्यदि प्रथमसमयमेव तज्ज्ञेयं नावगच्छेत् तर्हि ततो ज्ञेयादुत्पतिरप्यस्य न स्यात्, मनुते मन्यते वा मन इत्येवं सान्वर्थक्रियावाचकशब्दाभिधेयस्य मनसः, प्रदीपयतीति (योजितः पाठः) मतिनिरूपणे व्यसनावग्रहप्रस्तावे मनसोप्राप्यकारित्वं मनः शब्दान्वर्थनिरूपणेनागम| संवादेनच ५ निष्टतिम्॥ IC
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy