SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना र्णवप्रकरणम् ॥ ॥ ४८ ॥ www.katatirth.org गृह्णीयात् न चैवम्, यतो मनसः प्रथमसंमय एवार्थावग्रहो जायते न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, क्षयोपशमापाटवेन श्रोत्रादीन्द्रियस्य प्रथमं नार्थोपलब्धिरिति युज्यते तस्य व्यञ्जनावग्रहः, चक्षुरिन्द्रियस्येव पटुक्षयोपशमत्वान्मनसोऽर्थानुपलब्धकालाभावेन प्रथममर्थावग्रह एव जायत इति न व्यञ्जनावग्रहस्यावसरः, अत्र चानुमानप्रकार इत्थम्, इह यस्य ज्ञेयसम्बन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहः, यथा चक्षुषस्तथा मनसः, तस्मान्न तस्य व्यञ्जनावग्रहः, व्यतिरेके तु श्रोत्रादिर्दृष्टान्तस्तस्य ज्ञेयसम्बन्धेऽर्थानुपलम्भकालसम्भवात्, तत्र व्यञ्जनावग्रहाभ्युपगमः, एवश्च परोक्तपक्षद्वयस्याप्यघटमानत्वान्मनसो व्यञ्जनावग्रहासम्भवमुपसंहरति । ' न वंजणं तम्हचि, ' तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहः ॥ २४९ ॥ प्रथमसमय एव मनसोऽर्थग्रहणम्भवतीत्यत्रोपपत्तिमुपदर्शयति समए समए गिues, दव्वाई जेण मुणइ य तमत्थं ॥ जं चिंदिओवओगे वि, वंजणावग्गहेऽतीते ॥ २४२ ॥ होइ मणोवावारो, पढमाओ चैव तेण समयाओ । होइ तदत्थग्गद्दणं, तदण्णहा न प्पवत्तेज्जा ॥२४३॥ व्याख्या-येन कारणेन कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृह्णाति मनोद्रव्यग्रहणशक्तिसम्पन्नो जीवः चिन्तनीयश्च तथा जानाति, एतत्प्रथमगाथापूर्वार्द्धार्थेन सह द्वितीयगाथाद्वितीयतृतीय चरणार्थी सम्बन्धनीयौ । ततश्च तेन कारणेन प्रथमसमयादेव भवति चिन्तनीयार्थस्य ग्रहणमित्यर्थः अर्थानुपलब्धिकालस्त्वेकोऽपि समयो नास्ति, कुत्र तस्य व्यञ्जनावग्रहइति भावः । नन्विन्द्रियव्यापाररहितस्य जीवस्य मनोमात्रेणैवार्थान्पर्यालोचयतो मा भवतु मनसो व्यञ्जनावग्रहः श्रोत्रादीन्द्रियेणार्थान् गृह्णतस्तु जीवस्य मनोऽपि तत्र व्यापिपर्तीति तत्र प्रथममनुपलब्धिकालसम्मवाद् व्यजनावग्रहः किन्न स्यादित्यत आह, For Private And Personal Use Only Acharya Shei Kailassagarsu Gyanmandir ( योजित: पाठ: ) मतिनिरूपणे व्यञ्जनाव ग्रहप्रस्तावे पटुक्षयोपश मत्वाच्चक्षुष इव मनसः प्रथमत एवाग्राहकत्वेन व्यअनावग्रहा भाव एवेति प्रदर्शनम् ॥ ॥ ४८ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy