SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ - * * ABPRECRUARCHURRACEBOOK दृष्टार्थस्य कथं स्वप्ने भानमिति चेद् , एतन्महिम्नति संक्षेपः॥ ३८॥ ननु स्त्यानद्धिनिद्रोदये द्विरदरदनोत्पाटनादिप्रवृत्तेर्मनसः प्राप्यकारित्वव्यञ्जनावग्रही सेत्स्यत इत्यत आह-- स्त्यानधौ श्रवणादीनां, व्यञ्जनावग्रहादयः॥ भवेयुर्न तु चित्तस्य, स्वप्नोऽयमिति जानतः ॥३९॥१७॥ स्त्यानधिनिद्रोदये हि प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शण्वतः श्रोत्रेन्द्रियादीनामेवावग्रहो भवति, न तु नयनमनसो,तत्प्राप्यकारिताया युक्तिरिक्तत्वात्, नन्वेवं बाह्येन्द्रियव्यापारे प्रबुद्धस्य स्वप्नोऽयमिति ज्ञानं कथमिति चेत्, गाढनिद्रोदयपारवश्येन तथाभिमानाद्, आह च-"सिमिणमिव मन्त्रमाणस्स, थीणगिद्धिस्स वंजणोग्गहया । होज व ण उ सा मणसो, सा खलु सोइंदिआईणं ।। ॥ २३४ ॥" [खममिव मन्यमानस्य, स्त्यानगृद्धेळञ्जनावग्रहता । भवेद्वा न तु सा मनसः सा खलु श्रोत्रेन्द्रियादीनाम्] ननु निद्रोदय कथमीदृशी विशिष्टचेष्टेति चेत्, तदुदयसमये चक्रिवलार्द्धबलसम्पत्तेः ॥ श्रूयन्ते ह्यत्रोदाहरणानि-ग्रामे वचन कोऽप्यासी-त्कौटुम्बिकशिरोमणिः ॥ यस्य जिह्वा पलग्रास-रसव्यसनतत्परा।।१।। मांसानि खानिर्दोषाणां, यत्र यत्र स पश्यति ॥ और्वानल इवाम्भोधौ, चेतस्तत्रास्य धावति ।।२।। एष धर्मेधसां दाहे, वन्यदावाग्निरन्यदा ॥ आनीयोपशम वाग्भि-मेघधाराभिरञ्जसा ॥३॥ दुर्नीतिदलनान्वीक्षा, दीक्षा दचा महात्मभिः।।स्थविरैः स्थिरतां नीतो, जगद्गीतयशोभरैः ॥४॥ तेनान्यदा विहरता, ग्रामे वचन घातितः॥ सौनिकैर्महिषो दृष्टो, महिषघजमन्दिरे ॥५॥ अभिलापस्तदा तस्य, तदीयामिषभक्षणे ॥ प्रावतत हहा कर्म-स्थितिर्हि दुरतिक्रमा ॥६॥न न्यवर्चत तस्यासौ, व्यासङ्गेऽपि क्रियान्तरे ॥ कान्तासङ्ग विना याति, न नाम विरहज्वरः ॥७॥ तेनैव चाभिलाषेण, स्वापमाप दुराशयः । तस्य तत्सहकारेण, स्त्यानर्द्धिरुदियाय च ॥८॥ महिषध्वजवत् मतिनिरूपणे व्यञ्जनावग्रह प्रस्तावे त्यानधिनि द्राप्रकारेण मनसः प्राप्यकारित्वव्यञ्जनावग्रहस्थापक्रमतखण्डनम् ॥ * * * * For And Pool Onty
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy