SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya Sulkalasssagarmail.Gyanmantire सविवरणं श्रीज्ञाना र्णव प्रकरणम् ॥ ॥४४॥ SECRESS जन्यत्वमिति चेत्, न, तीव्रवेदाध्यवसायजनकबहुतरमनोद्रव्यप्रेरितजीवप्रयत्नादेव तदुपपत्तेदृष्टार्थस्य बाधितुमशक्यत्वात् ॥३७॥ ननु भाविराज्यादिस्वप्नस्य सत्यत्वदर्शनान्मनसो मेरुप्राप्तिस्वप्नोऽपि कथं न तथेत्यत आहस्वप्नोऽपि न मृषा कश्चि-न तु सर्व इतिस्थितिः॥ तेन न प्राप्यकारित्वं, मनसः स समर्थयेत् ॥३८॥१६॥ नहि भाविराज्यादिसूचकस्वप्नस्यार्थक्रियाकारित्वेन प्रामाण्यमिति मेरुगमनादिस्वप्नस्यापि तथात्वं स्यात् अर्थक्रियाकारिस्वाभावेन तस्य स्फुटमेवाप्रामाण्यान ह्येकजातीयस्य कस्यचित्प्रामाण्ये सर्वस्य तथात्वं नाम, घटादिचाक्षुषस्य प्रामाण्ये रङ्गे रजत बुद्धपि तथात्वप्रसङ्गाद् आह च-"नणु सिमिणओ वि कोइ, सच्चफलो फलइ जो जहादिहो।।नणु सिमिणम्मि णिसिद्धं, किरिया किरियाफलाई च ॥२३॥"[ननु स्वप्नोऽपि कश्चित्सत्यफला, फलति यो यथादृष्टः। ननु स्वप्ने निषिद्धं, क्रिया क्रियाफलानि च "ज पुण विन्नाणं, तप्फलं च सिमिणे विबुद्धमेत्तस्स ।। सिमिणयणिमितभावं, फलं च तं को णिवारेइ ॥२३२॥"[यत्पुनर्विज्ञानं, तत्फलं च स्वप्ने विबुद्धमात्रस्य।।स्वप्ननिमित्तभावं, फलं च तत्को निवारयति?] ननु स्वमः सर्वोऽप्यप्रमैव निद्रादोषजनितत्वाद्, भाविराज्यस्वप्नादीनां तु देहस्फुरणसहसोदितवद् भाव्यर्थानुमापकत्वादेव प्रामाण्यं तत्चच्छास्त्रात्तथाविधव्याप्तिग्रहात्,तदुक्तम्"देहप्फुरणं सहसोइअंच, सिमिणो अकाइआईणि ॥ सगयाई निमित्चाई, सुभासुभफलं णिवेइंति ॥२३३॥"त्ति. [ देहस्फुरणं सहसोदितं च, स्वप्नश्च कायिकादीनि । स्वगतानि निमित्तानि, शुभाशुभफलं निवेदयन्ति] कथं कश्चिदेव स्वप्नः प्रमा नतु सर्व इत्यभिधीयत इति चेत्, न, 'आरोपे सति निमित्तानुसरणं नतु निमित्तमस्तीत्यारोप इति न्यायन क्वचिदेव कस्यचिद्दोषत्वकल्पनात्, न च तदिति स्थले इदमिति भानात्तस्याप्रमात्वं, स्मृतिप्रामाण्यव्यवस्थापितत्वात्, सर्वत्र स्वप्ने तथाभानाभावाद्, मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावेस्वप्नदष्टान्तेन मनसः प्राप्यकारित्वव्यवस्थापयितुर्मतखण्डनम् ॥ RECRUCk ॥४४॥ For Private And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy