________________
POMEGRACTOR
क्षाविलयप्रसङ्गे बुभुक्षाक्षामकुक्षेनिद्रायामेव प्रवृत्तिः स्यान्न तु पाकादाविति विपरीतमेतद्, आह च-"दीसन्ति कासइ फुडं, हरिसविसायादओ विबुद्धस्सा।सिमिणाणुभूअसुह-दुक्ख-रागदोसाइलिंगाई।।२२६॥"[दृश्यन्ते कस्यचित्स्फुटं हर्षविषादादयो विबुद्धस्य।। स्वमानुभूतसुखदुःख-रागद्वेषादिलिङ्गानि “न सिमिणविन्नाणाओ, हरिसविसायादओ विरुज्झति।। किरियाफलं तु तिची-मदवहबंधादओणत्थि ॥२२७॥" [न स्वमविज्ञानाद् हर्षविषादादयो विरुध्यन्ते ।। क्रियाफलं तु तृप्तिमदवधबन्धादयो न सन्ति ननु कान्तादर्शनजन्ये सुखे तदर्शनमात्र हेतुरस्तु, मोदकमक्षणादिजन्यं तु सुखं कथं स्वमे मोदकज्ञानमात्रादितिचेत,न, अनन्यगत्या स्वमजनितेष्टप्राप्त्यभिमानस्यापि विलक्षणसुखहेतुत्वस्वीकारात् प्रबुद्धस्य तु स्वमशुभत्वज्ञानस्य तथात्वादिति दिग् ॥ ननु स्वप्नेऽपि कामिनीसुरतादिक्रियाफलं व्यञ्जनविसर्गादि प्रबोधावस्थायामपि साक्षात् दृश्यत एव तत्कथं स्वप्ने क्रियाफलं नास्तीत्युच्यत इति चेत्, न, जाग्रतोऽपि तीबमोहाध्यवसायेन व्यञ्जनविसर्गदर्शनात, स्वप्नेऽपि तस्य तद्धेतुकत्वेन क्रियाफलत्वासिद्धेः, अन्यथा स्वप्नविषयीकृतकामिनीनां गर्भाधानादिप्रसङ्गाद,आहच-"सिमिणे वि सुरयसंगम-किरियासंजणिअबंजणविसग्गो।।पडिबुद्धस्स वि कस्सइ, दीसइ सिमिणाणुभूअफलं ॥२२८॥"[स्वप्नोऽपि सुरतसङ्गम-क्रियासञ्जनितव्यञ्जनविसर्गः॥ प्रतिबुद्धस्यापि कस्यचित, दृश्यते स्वप्नानुभूतफलं]"सो अज्झवसायकओ, जागरओपि जह तिव्वमोहस्स ॥ तिव्वज्झवसाणाओ, होइ विसग्गो तहा सुमिणे ॥२२९॥"[सोऽध्यवसानकृतो जाग्रतोऽपि यथा तीव्रमोहस्य।। तीव्राध्यवसानाद्, भवति विसर्गस्तथा स्वप्ने] "सुरयपडिवत्तिरइसुह-गम्भाहाणाइ इहरहा होज्जा ।। सुमिणसमागयजुबईए, ण य जओ ताई तो विफला ॥२३०॥"[सुरतप्रतिपत्तिरतिसुखगर्भाधानादीतरथा भवेत्।। स्वप्नसमागतयुवतेः, न च यतस्तान्यतो विफला ] ननु व्यब्जनविसर्गस्य क्रियापूर्वकत्वदर्शनात्कथमध्यवसान
मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावेस्वमदृष्टान्तेन मनसः प्राप्यकारित्वव्यवस्थापयितुर्मतखण्डनम् ॥
%ASHISH