SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना र्णवप्रकरणम् ॥ ॥ ४३ ॥ www.ketafirth.org नचाशु गमनागमनशीलस्य मनसस्तदा ततः परावृच्या तद्विपरीतदर्शनमुपपत्स्यत इति वाच्यं, स्वप्नस्य प्रामाण्यानिश्चयेन तथाकल्पनाऽयोगाचेन शरीरस्यापि तत्प्राप्तिग्रहात् न च सापि सम्भवति, कुसुमपरिमलाद्यजनितश्रमाद्यनुग्रहोपघाताभावादिह स्थितैः सुप्तस्याचैव दर्शनाच्च, तदिदमाह -“सिमिणो ण तहारूवो, वभिचाराओ अलायचक्कं व ।। वभिचारो अ सदंसण-मुवघायाणुग्गहाभावा ॥२२४॥ |” [ स्वप्नो न तथारूपो व्यभिचारादलातचक्रमिव ।। व्यभिचारश्च स्वदर्शना-दुपघातानुग्रहाभावात् ] "इह पासुत्तो पेच्छड, सदेहमन्नत्थ ण य तओ तत्थ ।। ण य तग्गयोबघाया - णुग्गहरूवं विबुद्धस्स ॥ २२५॥ [ इह प्रसुप्तः प्रेक्षते स्वदेहमन्यत्र न च सकस्तत्र ॥ न च तद्गतोपघातानुग्रहरूपं विबुद्धस्य ] || ३६ || नमु प्रबुद्धस्य हर्षविषादोन्मादमाध्यस्थ्यदर्शनात् स्वप्नेऽपि जिनस्नात्र- तदपायकामिनी कुचकलश सम्पर्क संस्तारस्वरूपदर्शनाद्यर्थक्रियानुमानात् न तस्य व्यभिचारित्वं भविष्यतीत्यत आह— हर्षादिकं ज्ञानफलं स्वप्ने नैव क्रियाफलम् | तत्सम्भवे बुभुक्षाऽपि क्षीयेतीदनदर्शनात् ॥ ३७ ॥ ९५ ॥ न खलु स्वमे जिनस्नात्रादिकरणादेव प्रबुद्धस्य हर्षादिप्रादुर्भावः केनापि स्वप्ने तत्क्रियाऽदर्शनात्किं तु रागादिमहिम्ना तदभिमानादेव, दृश्यते हि जाग्रतोऽपि दूराज्जरतीमपि मदिरोन्मादविघूर्णमाननयनां गतिविलासविडम्बितकलहंसगमनां ससम्भ्रमं निजभुजोत्क्षेपविहितपीवर कुचकलशोन्नमनामादरेण तरुणीमिव पश्यतस्तरुणस्य हर्षोन्मादादिप्रादुर्भावस्तस्मादिष्टप्राप्त्यादेखि तदभिमानस्यापि सुखादिहेतुत्वमास्थेयं । अत एव रागसह कृतस्यैव तस्य तज्जनकत्वात्तद्विरहिणो मुनेः स्वमे कामिनीदर्शनादिनापि न हर्षादयोऽपि तु माध्यस्थ्यमेव, 'मोहहीनस्य स्वम एव न' इति तु न वक्तुं युक्तम्, मोहविगमाधीननिर्मोहत्वस्य दर्शनावरणोदयप्रसूतनिद्राद्यविरोधित्वात्, यदि तु स्वमेऽपि सुखादिकं क्रियाफलमिति क्रियैव स्यान्नान्यथा, तदा तदानीमोदनादिदर्शनाद् बुव For Private And Personal Use Only Acharya Shui Kalassagarsu Gyanmandir मतिनिरूपणे व्यञ्चना वग्रहप्रस्तावे - स्वमदृष्टांतेन मनसः प्राप्य कारित्वव्यवस्था पयितुर्मतखण्डनम् || ॥ ४३ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy