SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org शरीरस्य पुष्टिहानी तावत्पुद्गलजन्ये इष्टा ऽनिष्टाहाराभ्यवहारेण तदर्शनाद्, अथेष्टादप्याहाराद्रोगिणां पुष्टचदर्शनादनिष्टादपि च | भेषजादेस्तदर्शनाद् व्यभिचार इति चेत्, न, धातुसाम्यवैषम्यद्वारा तयोस्तद्धेतुत्वात्, तदिह चिन्ताहर्षसमये जायमाने शरीरपुष्टिहानी पुद्गलसम्बन्धमपेक्षमाणे उपस्थितत्वान्मनः पुद्गलसम्बन्धकल्पनायैव प्रभवतो, नचौदर्याग्निपरिपाकजनित। तिशयानामेवाहारपुद्रलानां तद्धेतुत्वावधारणान्नानीदृशानां मनःपुद्गलानां तद्धेतुत्वमिति वाच्यम्, स्वत एवातिशयितानां मनःपुद्गलानां तद्धेतुत्वौचित्यात्, अन्यथा हृद्ग्रन्थेरपि दौर्बल्यजनकत्वं न स्यात्, ननु चिन्ताहर्षयोरेव साक्षात्तजनकत्वमस्तु किं नानामन: पुद्गलकल्पनया १, वदति च - "चिन्तया वत्स ! ते जातं, शरीरकमिदं कृशम्" इति चेत्, न, एकशक्तिमत्त्वेन पुद्गलत्वेन तद्धेतुत्वकल्पनात्प्रमाणावरोधेन तत्र्यागायोगात्तयोरपि मनोजन्यत्वेन मनस एवं तद्धेतुत्वकल्पनौचित्याच्च, आकाशवदमूर्तयोश्चिन्ताहर्षयोर्न तजनकत्वमिति प्राञ्चः ॥ चिन्तयेत्यादिकश्च प्रयोग औपचारिक इति दिग् ॥ तदिदमभिप्रेत्याह -" इठ्ठाऽणिहाहार-भवहारा होन्ति पुट्ठिहाणीओ ॥ जह तह मणसो ताओ, पोग्गलगुणओत्ति को दोसो १ ॥ २२१ ||” [ इष्टानिष्टाहाराभ्यवहारे भवतः पुष्टिहानी । यथा तथा मनसस्ते पुद्गलगुणत इति को दोषः ॥ ] स्यादेतत्, शोकहर्षव्यापारनैरन्तर्येण नाडीविशेषप्रयत्नप्रेरितद्रव्यान्तरादेव तदुपपत्तौ किं मनः-कल्पनयेति, मैवं, शोकहर्षादिकार्यजनकानां मनोद्रव्याणामेव कल्पनात्तत्र संज्ञामात्र एव परेषां विवादात् इष्टानिष्टमनोद्रव्योपादाननियम एव कुत इति चेत्, अदृष्टवशादेवेति सर्वमवदातम् ॥ ३५ ॥ स्वमविज्ञानेन मनसः प्राप्यकारित्वं सेत्स्यतीति निराकर्तुमाह मनसः प्राप्यकारित्वं, स्वप्नेनापि न सिद्ध्यति ॥ यदसौ न तथारूपौ, व्यभिचारादिदर्शनात् ॥ ३६ ॥ ९४ ॥ 'मम मनो मेरौ गतं' इति स्वप्नविज्ञानदर्शनात्र मनसः प्राप्यकारित्वं सिद्धयति तस्याप्रमाणत्वात्प्रबोधे तद्विपरीतदर्शनात्, ८ For Private And Personal Use Only Acharya Se Kalasagarsun Gyanmandir मतिनिरूपणे व्यञ्जनाव ग्रहप्रस्तावे - स्वप्नदृष्टांतेन मनसः प्राप्यकारित्वव्यवस्थापयितुः खण्डनम् ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy