SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुरुतत्त्वप्रदीपे घाढो विश्रामः । कि षड्जीवनिकायेष्वप्यायरक्षितनाढयोः । बभूवाऽभिनिवेशो ? यत्समता द्विमिता मता ॥१॥ व्याख्या-यत् समता-सामायिकं, द्विर्मता-दिनस्य मध्ये द्विवेलमेवाऽदेयमिति मतम् । ततस्सामायिकाभावे गृहस्थैः षडजीवनिकायहिंसा विधेया; तप्ताऽयोगोलकल्पत्वासेषाम् । अतः किं आर्यरक्षितनाढयोसिसन्तस्सामायिकद्वयाधिकतृतीयादिसामायिकग्रहणनिषेधकयोः षड्जीवनिकायेषु अभिनिवेशोऽभूत् ? । यदेतयोः प्ररूपणाया एतेष्वेव वराकेष्वहितत्वेन विश्रान्तत्वात् । एतयोः कथानक-श्रूयते हि-बिउणपग्रामे राकामतानुरक्ता स्वकुटुम्बस्यः स्वजनस्वसाधर्मिकप्रवर्तिका विपुद्धिमती चक्षुर्विकला नादाभिधाना श्राविकाभवत् । अन्यदा तत्र राकामताऽऽचार्यः कश्चिदाययो। तदा स वन्दनार्थमागतं श्रावकश्राविकावर्ग धर्मसुखनिर्वहणोदन्तं पप्रच्छ । तेन वर्गणोक्तं नाढाप्रसादेन । ततस्सकोपेनाऽऽचार्यणोक्तं-केयं कीदृश्यत्र नाढा देवगुरुप्रसादेनेति कथं नोच्यते ? । सन्निशम्य नाढाप्यन्तः सामर्षाऽभवत् । ततो द्वादशावर्तवन्दनार्थमागतस्य तस्य वर्गस्य मध्यान्नाढाया एव भवितव्यतायोगेन मुखवस्त्रिका न प्रभूता। आचार्य ढामानम्लानाय नाढां विना दापितं वन्दनं । सत्श्रुवा राकामतविनिर्गताऽऽयर क्षितोपाध्यायस्तत्राजगाम । नाढापि वन्दनार्थमागता । उपाध्यायेनोक्तंनाढे ! नास्त्यागमे मुखवस्त्रिका श्राद्घानामितिप्ररूपणया त्वन्मानम्लानिकराचार्यानुरक्तश्राद्ध मुखवस्त्रिकात्याजनेन वयं तवामर्ष प्रमानपदवीनेष्यामः। देह्यस्माकमञ्चलेन द्वादशावर्तवन्दनकम् । दत्तं तया कुटुम्बैयापि तत् । तत्प्रभृति ताभ्यामञ्चलमतमातेने ॥१॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy