________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः
.
..
.
साम्याभावे हि हिंसा स्यात्, तयं समतामितिः । विश्वविश्वेन आदेशोऽभवत्तस्य विनाशतः ॥२॥ व्याख्या-हि-यस्मात्कारणात् साम्याऽभावे पारितसामायिकानन्तरं हिंसा स्यात् । ततो दिनान्तस्तृतीयं सामायिक नग्राह्यमिति प्ररूपणाकर्तुः षड्जीवनिकायष्वप्यभिनिवेशो बलाल्लभ्यते । तथा इयं समतामितिः । एषां साम्येयत्ता-दिनान्तस्सामायिकद्वयस्यैवाऽऽदानं 'विश्वविश्वेन आदेशो' विश्वस्य-समग्रस्य, विश्वस्य-जगतो, यदेनः-पापं तस्य कृते आदेश:-अहो लोकाः ! कुरुत यूयं पापानि यदृच्छया इत्यादेशोऽभवत् । तस्याः समतामितेविनाशतो-निधनात् । सामायिकद्वयमेव दिनान्तर्यामितिप्ररूपणया सामायिकद्वयंस्याप्यप्राप्तिभवनात् । कथमित्याह
यज्जिनः सर्वथा त्याज्ये, वस्तुन्युत्कोतिता मितिः । तन्मुक्तिर्मुक्तये चेत्य, नाशः साम्यमितेरभूत् ॥३॥ व्याख्या-यत्-यस्मात् कारणात् जिनै:-सर्वज्ञेस्सर्वथा-सर्वप्रकारेण त्याज्य-त्यजनाहे वस्तुनि मैथुनादौ, मिति:-परिमाणं, उत्कीर्तिता-कथिता । मैथुनादि सर्वथा त्यक्तुमक्षमो दिनान्तरैकवेलं द्विवेलं वा मैथुनादि मुत्कलं मोक्तव्यमधिकं नासेवनीर्यामत्युपदिश्यते । तथा तन्मुक्तिस्तस्या मितेर्मुक्तिर्मोचनं-अहमेकवेलमपि दिनान्तमैथुनं न करिष्यामीति निषेधो मक्तये-मोक्षायोपदिष्टः । इत्थममुना प्रकारेण साम्यमिते शोऽभूत् । द्विकालमेव सामायिकमादेयमिति प्ररूपणया सर्वथा त्याज्ये साम्ये यो द्विकालमपि साम्यं नादत्ते, तस्य' कर्मक्षय इति बलादापन्न । सत्येवं विश्वविश्वेन आदेशोप्यापद्यते ॥३॥
For Private And Personal Use Only