SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे तृतीयादिवेलं दण्डकोच्चाररूपसामायिकग्रहणमयं विशिष्टानुष्ठानमस्माभिनिषिद्धं सदाकालं श्राद्धेन-प्रशान्तचित्तेन सर्वत्रापि बर्तितव्यमिति सामायिकरूपसामान्यानुष्ठानं म निषिद्धम् । शान्तचित्तत्वेन यतनापरत्वादहिंसाया अपि सम्भवेन विश्वविश्वेन आदेशस्यासम्भवादिति परकृतोपन्यासमुत्थापयन्नाह शक्ती विशिष्टानुष्ठाने, यो निषेधो परेपि सः । अशक्तेरेव भेवोऽस्ति, यत्तयो पि रूपतः ॥४॥ व्याख्या-शक्ती सामर्थ्य सति, विशिष्टानुष्ठाने-उपवासदण्डकोच्चाररूपसामायिकादौ यो निषेधः क्रियते, स निषेधो परेपिएकाशनदण्डकोच्चाररहितसामायिकादौ सामान्यानुष्ठानेपि लगति। यतस्तयोविशेषानुष्ठानसामान्यानुष्ठानयोरशक्तेरेवभेदो- भिन्नताऽस्ति । अशक्तं पुरुषमाश्रित्यानुष्ठानभिन्नताऽभूत्, न रूपतोपिस्वरूपतोपि न । स्वरूपमाश्रित्याहारपरिहार-समपरिणामकारणादि स्वरूपमुभयोरप्यनुष्ठानयोत्सवृशमेव । तत एकस्य निषेधे परस्यापि निषेधः सम्भवेत् । ननु प्रभाते गृहीतसामायिके सकलोपि दिवसोऽस्तु तथा सन्ध्यायां गृहीते सामायिके सकलापि रजन्यस्तु को नाम वारयेत् । उच्यते-नेत्थं श्राद्धानां सर्वदेवेवंविधशक्तेरभावात् । असम्भवाभिधानादाप्तस्यानाप्तताप्रसङ्गाच्च । अतः शक्तौ सत्यां तृतीयचतुर्थाद्यपि सामायिकमादेयमिति सिद्धम् ॥४॥ - सत्यां सामग्रयां युक्त्या सिद्धमधिकसामायिकग्रहणमक्षरोक्त्यापि दर्शयन् एतदक्षरमोटनामुत्थापयंश्चाह क्षणिकस्सन् श्रयेत् साम्यं, चूर्णावावश्यकस्य यत् । यद्यस्मिन्नप्युभौ कालौ, पञ्चस्वावस्यनेषु तत् ।।५।। For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy