________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः
व्याख्या-यद्-यस्मात्कारणात् यदा क्षणः प्रस्ताव: सामग्री तदा श्रावकस्सन् सामायिक श्रयेत् इत्यावश्यकचूर्णावुक्तम् । 'जाहे खणिओ ताहे करेइ' इति वचनात् । प्रचुराण्यपि सामायिकानि दिनान्तरादेयानीति सिद्धम् । यदि अस्मिन्नपि सामायिके उभौ कालो त्वया प्ररूपितो प्रस्तावे सति सामायिकं ग्राह्यमिति भवतु . पुनस्सोपि प्रस्तावो दितान्तप्र्वेलोभियसम्बन्धी परिज्ञेयः । यद्युभयो
लयोः सामग्री न स्यात् । ततस्सामायिकशून्योपि दिवसः प्रयातु इति क्षणिकशब्दार्थः । अतः सत्यामपि सामग्रयां तृतीयवेलं न करणीयमितिचेत् । ततः पञ्चस्वावश्यकेषु चतुविशतिस्तववन्दनकप्रतिक्रमणककायोत्सर्गप्रत्याख्यानरूपेषु 'उभयकालं आवस्सयं करेद' इति वचनात् द्विवेलमेव करणं युज्यते । युष्माकमप्येतेषु द्विकालसख्याबाधनात् । इति स्ववचनविरोधरूपं मिथ्यात्वं लगति भवताम् ॥५॥
भवदीयेपि श्राद्धा उभयकालमेव प्रतिक्रमणं विदधति । ततः कथं न सामायिकमपीति परोपन्यस्ताऽऽशङकामाक्षिपन्नाह
न च तुल्यं प्रतिकाते प्रायश्चित्तमियं यतः ।
सर्वत्र नियतं तत्स्थात्, सान्यं तु बहुशः श्रुते ॥६॥ व्याख्या-म व सामायिक प्रतिक्रान्ते:-प्रतिक्रमणस्य तुल्यं यतो यस्मात्कारणादियं प्रतिक्रान्तिः प्रायश्चित्तं । तत्प्रायश्चितं सर्वत्र नियतं स्यात् । यस्मिन् पापे यावत् उभयकालं प्रायश्चित्तं श्रुतेऽभिहितम् । तावदेव कर्तव्यम् । स्वधिया हीनमधिकं वा कुर्बाणस्यामाभङ्गः । तदियं प्रतिक्रातिर्देवसिकरात्रिकातिचाराणां प्रायश्चित्तरूपा सूत्रे द्विकालं चोक्ता। अतो द्विकालमेव करणीया
For Private And Personal Use Only