________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो विश्रामः
८९
देवगृहान्तभूमौ पतितं निरीक्ष्येतद्दिनादारभ्यानेन भ्रान्तचित्तेन धर्मबुद्ध्या पापमजानता । अन्यन्निवारितत्वादभिनिवेशपूरितेन देवगृहे स्त्री निषिद्धा ॥१४॥
करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः ॥१५॥ यच्च पर्युषणाकल्पे, नक्षत्राव षद् ततः । नक्षत्रानां तवाख्यानं सानि कल्याणकानि न ॥१६॥ कल्याणकानामावेशी-ऽवसातव्यः श्रुतान्तरात् । सर्वस्मिन्नपि सिद्धान्ते, पञ्चवैतानि सन्ति तु ॥१७॥ सूरिणा हरिभद्रेण, व्यक्तं पञ्चाशकेष्वपि । कल्याणकानि पञ्चव, प्रोक्तानि चरमे जिने ॥१८॥ किं ते मृतगुरोर्मूतिः, पूज्यते कुसुमाविभिः ? । ही यतस्संयताऽवस्था सावद्याऽनुचिता मता ॥१९॥ चतुर्गत्यन्तरेगाऽस्य, निवासो यत्ततोऽपि चेत् । साप्यवस्थाऽत्र पूनाहीं, कोऽप्यपूज्यस्ततोऽस्ति न ॥२०॥
एते स्पष्टाः ॥ इतिश्री गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये औष्ट्रिकनिरासो नाम पञ्चमो विश्रामः ।।५।। - इतिश्रीगुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये पाचमविश्रामस्म विवरणम् ।।५।।।।
For Private And Personal Use Only