________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुरुतत्त्वप्रदीपे
२.
स्थापि सूत्रोक्तत्वात् । एवंविधश्चासम्बद्धो राकाक्रमो यद्भबता स्यक्तस्तत्सुन्दरं विहितम् । अपरमपि सुन्दरं कर्तुं युक्तम् । ततस्त्वया सूत्रादर्चनं-स्त्रीयां जिनपूजनं किं न मत्तम् ? ३१२॥
सूर्वाशनाटयक्त कि, वर्तक्यो न जिनागणे ? ।
चैत्यानायतनं यत्त-अक्तं चामुण्डिकस्य च ॥१३॥ व्याख्या-ते-तव 'जिनाङ्गयो नर्तक्यः किं न भवन्ति !, सूर्याभनाटय वत्-श्री महावीरस्य पुरतः सूर्याभदेवकृतनाटकवत् । तथा बच्चैत्यं बनायत्तनम् । यत् सङवप्रतिष्ठितानि चैत्यानि अनायतनानि मन्यसे । तच्च क्तं तब चामुण्डिकस्य-चामुण्डाभक्तस्य । चामण्डामवनस्यैवाभ्यतनत्वात् । खरतरमताकर्षकेण जिनदत्ताबार्येण स्वमतवृद्धये आराध्य चामुण्डा परितोषमानीता। ततो जनेनाऽस्व चामुण्डिक इति नाम प्रदत्तम् ॥१३॥
जिनदत्तक्रियाकोश-च्छेदोऽयं यत्कृतस्ततः ।
सयोक्तिभीतितस्तेऽभू-दाराष्ट्र पलायनम् ।।१४।। .. व्याख्या-अहो खरतर ! यत त्वया अयं जिनदत्त क्रियाकोशच्छेदो। जिनेन दत्ता या क्रिया-बिम्बार्चन-मासकल्पादिका. सैव कोशो-भाण्डागारस्तस्य छेदः कृतः । अतस्सङघोक्तिभीतित:सङघजल्पनभयात्ते-तव उष्ट्रमारुह्य पलायनमभूत् । पाटितभाण्डागाराणां पलायनस्य युक्तत्वात् । अत्र श्लोकस्याऽद्यैश्चर्तुभिरक्षरमताकर्षकस्याऽचार्यस्य नाम गूढ मुक्तम् । जिनदत्ताऽऽचार्यो मां प्रभाते सङघो जल्पयिष्यतीति भयाद्रजन्यामेवोष्ट्र मारुह्य श्रीपत्तनाज्जावालपुरे प्रणश्य गतस्ततो जनेनौष्ट्रिक इति नाम प्रदत्तमस्य । तथाऽस्याचार्यस्य देवगृहसमुपविष्टस्य काचित् श्राविका जिनार्चनाय समायाता, तस्या अकस्मात् सञ्जातऋतुकालवशात् रुधिरं
For Private And Personal Use Only