________________
Shri Mahavir Jain Aradhana Kendra
पञ्चमो विश्रामः'
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
न स्त्रियास्ते यतोऽर्चायां, बाला वृद्धानुगो (गा ) नरे । निषेधोऽनुगो ज्ञाने तीर्थच्छेदस्तवेत्यभूत् ॥ ११ ॥
८७
व्याख्या - त्वदीये स्त्रियास्ते - कारितानुमती न स्याताम् । यतो बाला वृद्धानुगो (गा) बालस्त्री वृद्धस्त्रीपृष्ठलग्ना । नरेऽपि पूजाया निषेधोऽभूत् । यदि तरुणीनां स्त्रीणां ऋतुकालभवनभयाते पूजा निषेधस्ततो बालवृद्ध स्त्रीणामृतुकालासम्भवेऽपि कथं जिनपूजानिषेध: ?, स्त्रीजातित्वादितिचेत् । तर्हि पुरुषेऽपि सोऽस्तु मनुष्यजातित्वात् । अथ प्रवृत्तिदोषमालम्बनं कुरुषे । पुरुषेऽपि समानमेतत् । तदेवं पुरुषस्यापि जिनपूजनं दोषाय । तदनु स्त्रिया अपि तत्कारितानुमती दोषायैव । एवं स्त्रीणां पुरुषाणामनुगः- पूजानुलग्नो ज्ञानेऽपि निषेधः प्राप्नोति ज्ञानाऽध्ययने ऽप्याशातन। भवनात् । इत्यमुना प्रकारेण तीर्थच्छेदस्तवाऽभूत् । अत एव सङ्घबाह्यो भवानिति ॥ ११ ॥
यत् पाक्षिकं चतुर्द्दश्यां पञ्चम्यामिव वार्षिकम् । त्यक्त्वा राकाक्रमं सूत्रात्, मतं तत्किम नार्श्वनम् ? ॥१२॥
-
་
1
व्याख्या - यत् त्वया सूत्रात सिद्धान्तात्पाक्षिकं - पाक्षिकप्रतिक्रमणं चतुर्द्दश्यां चतुर्द्दशीदिने मतं । किमिव ?, वार्षिक पञ्चम्यामिव । यथा वर्षप्रतिक्रमणं पञ्चमीदिने सूत्रात्त्वया मतम् । किं कृत्वा ?, राकाक्रमं त्यक्त्वा - पूर्णिमानुसारं परित्यज्य । यतः पूणिमीयकै: राकाक्रमोऽङ्गीकृतो । यदाहुस्ते - सिद्धान्ते चतुर्मासक पूणिमायां ततस्तदनुसारतः पाक्षिकमपि पूणिमायां घटते । उच्यते तर्हि तदनुसारतो वर्ष प्रतिक्रमणमपि पूणिमायामेव घटते न तस्य पञ्चम्यां । सूत्रोक्तत्वादिति चेत्, तहि चतुर्द्दश्यां पाक्षिक
-
For Private And Personal Use Only
-