________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
बत्तं तु अणज्जन्ते होइ दुरायं तिरायं वा ॥१॥ कोऽपि विद्याया ग्रहश्चतुर्दश्यां भवति । अथवा षोडश्यां-शुक्लपक्षप्रतिपदि विद्याग्रहणं । किमुक्तं भवति-कोऽपि विद्याग्रहः चतुर्दश्यां कोपि प्रतिपदि क्रियते इत्येवं त्रिरात्रवसनमथवैकेन दिवसेन व्यक्तमज्ञायमाने विद्याग्रहणाय भवति द्विरात्रं त्रिरात्रं वा विष्वग्वसनमिति ॥३३॥
षष्ठस्याशक्तितः प्रायो, यत्प्रोक्ताऽस्यां चतुर्दशी । तत्कि षष्ठतपोऽस्माकं, चतुर्मास्यां प्रदीयते ॥३४॥
व्या०-स्पष्टः ।। पूणिमास्यां लोकानुलग्नः परैरुक्तपाक्षिकत्वमुत्थापयन्नाह
राका चेत्पाक्षिकं लोकात्, तद्दीपाल्यस्तु वार्षिकम् । नाऽऽगमोऽपि न लोकोऽप्य-भिनिवेशाऽस्थिरात्मनाम् ॥३५॥
व्याख्या-चेत्-यदि राका-पूर्णिमा, पाक्षिक लोकात्लोकप्रसिद्धर्भवद्भिरूपातं, ततो दीपाली-दीपोत्सवो, वार्षिकपर्युषणं भवतामस्तु । तदकरणेऽभिनिवेशेनाऽस्थिरात्मनां-अस्वस्थात्मनां युष्माकं सिद्धान्तोक्तं चतुर्दश्यां पाक्षिकं परित्यज्य लोकपष्ठलग्नतया पूर्णिमायां पाक्षिकं कुर्वतामागमो विनष्टः, दीपोत्सवे लोकोक्तं वर्ष त्यक्त्वा आगमोक्तं पञ्चम्यां वार्षिक मन्वानानां लोकोऽपि विनष्ट: ॥३५॥
कालकाऽऽर्यकथायां च, कथावल्यां च साऽभवत् । पाक्षिकारोपणाऽलीका, ही कुतश्चिदकोविदात् ॥३६॥ व्याख्या-कालकार्यकथायां-कालकाऽऽचार्यकथायां । तथा कथावल्यां-कथावलीग्रन्थे अलोका सा पाक्षिकारोपणा-कूटं पाक्षि
For Private And Personal Use Only